________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः४]
सूतसंहिता।
१४९
निष्कामस्य जिज्ञासाजनका पज्ञादय इत्युक्तम् । सकामस्य स्वर्गादिकं जनयन्तीत्याह-स्वर्गकाम इति । यदि स्वर्गकामस्तहि यज्ञात्स्वर्ग यातीति 'स्वर्गकामो यजेत' 'यज्ञेन विविदिषन्ति' इति श्रुतिद्वपादियं व्यवस्था ॥ २७ ॥
सत्यं ब्रूयात्प्रियं ब्रूयात्सर्वभूतेषु सर्वदा ॥ एवं समाचरन्विप्रो विरक्तश्चेदृहाश्रमात् ॥२८॥ संन्यसेत्सर्वकर्माणि वेदान्ताभ्यासयत्नवान् ॥
वेदान्तश्रवणाभावे पतितोऽयं भवेद्बुवम् ॥ २९॥ गृहाश्रमात्संन्यसेदिति च । "ब्रह्मचर्य समाप्य गृही भवेत् । गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा" इति ॥२८॥२९॥
विरक्तोऽपि मुमुक्षुश्चेद्वंसे वा संन्यसेही ॥
बहूदके वा शक्तश्चेन्यसेविप्रः कुटीचके ॥ ३०॥ विरक्तोऽपीति । मुमुक्षुश्चेत्परमहंसो भवेत् । अमुमुक्षुरपि शक्तश्चेदंसौ बहू दको वा भवेत् । अशक्तश्चेत्कुटीचको भवेदित्यर्थः ॥ ३०॥
अविरक्तो गृही चान्ते वानप्रस्थं समाश्रयेत् ॥
अथवा यावदायुष्यं गार्हस्थ्यं सम्यगाचरेत् ॥३१॥ अविरक्तो गृहीति । अतो गार्हस्थ्याद्वानप्रस्थाश्रममाश्रयेदित्यर्थः । यावदायुष्यं वा सम्यग्गार्हस्थ्यमाचरेत् ॥ ३१॥
गृहस्थादाश्रमाः सर्वे समुत्पन्नाः सुरक्षिताः ॥ तस्मादृहस्थ एव स्यादविरक्तो दिजः सदा ॥ ३२॥ इति श्रीमूतसंहितायां ज्ञानयोगखण्डे गृहस्थाश्रमवि
धिनिरूपणं नाम चतुर्थोऽध्यायः ॥४॥ गार्हस्थ्यस्य प्राशस्त्ये हेतुः । गृहस्थादाश्रमा इति । यत आश्रमान्तराणां सर्वेषां स्वरूपलाभः स्वधर्मपरिपालनं च गृहस्थाश्रमनिबन्धनम् । अतः प्रशस्त इत्यर्थः ॥ ३२॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे गृहस्थाश्रमविधिनिरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥
१ ङ. 'सो वा व
For Private And Personal Use Only