________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेगृहस्थाश्रममुद्दिश्य-"अयमात्मा सर्वेषां भूतानां लोकः। स यज्जुहोति यद्यजते तेन देवानां लोकः । अथ यदनुब्रूते तेन ऋषीणाम् । अथ यत्पितृभ्यो निपृणाति यत्मजामिच्छते तेन पितृणाम् । अथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् । यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः" इति ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥
होमे जपे च मुक्तौ च गुरुवृद्धाद्युपासने ॥ तथैवाऽऽचमने यज्ञोपवीती स्यान चान्यथा ॥ १९ ॥ वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥
उद्भूलनं सकृत्कुर्यात्सर्वदेवोक्तवर्मना ॥२०॥ न चान्यथेति । उपवीतरहितो न स्यादित्यर्थः ॥ १९ ॥ २० ॥
त्रैयम्बकेण मन्त्रेण सतारेण शिवेन च ॥ त्रिपुण्डू धारयेनित्यं गृहस्थाश्रममाश्रितः॥२१॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ॥२२॥ त्रिपुण्ड्रं धारयेद्भक्त्या मनसाऽपि न लङ्घयेत् ॥
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् ॥२३॥ त्रैयम्बकेणेति । सतारेण शिवेन सप्रणवेन पञ्चाक्षरेण ॥ २१ ॥ २२ ॥ २३ ।।
रुद्राक्षं धारयेनित्यं रुद्राक्षाणामिति श्रुतिः ॥ लिङ्गे समर्चयेनित्यं देवदेवं महेश्वरम् ॥२४॥ अग्नीनाधाय विधिवत्कुर्याद्यज्ञाननन्तरम् ॥ यज्ञैः सर्वाणि पापानि विनश्यन्ति न संशयः॥२५॥ प्रक्षीणाशेषपापस्य शुद्धान्तःकरणस्य तु ॥
देवदेवपरिज्ञाने वाञ्छा जायेत सुव्रत ॥२६॥ रुद्राक्षाणामिति श्रुतिरिति । स्मृत्यनुमित श्रुतिरित्यर्थः ।।२४ ॥ २५ ॥२६॥
स्वर्गकामो यदि स्वर्ग याति यज्ञाद्विजोत्तमः ॥ पुत्रमुत्पादयेत्स्वस्यां पितॄणामृणशान्तये ॥२७॥
For Private And Personal Use Only