________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ६ ]
सूतसंहिता |
१५५
वति कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यामिन एव ब्रह्मनिछेति । वृत्तिभेदत इति । आचारभेदतः || १ || २ |
Acharya Shri Kailassagarsuri Gyanmandir
कुटीचकश्च संन्यस्य स्वे स्वे वेश्मनि नित्यशः ॥ भिक्षामादाय भुञ्जीत स्वबन्धूनां गृहेऽथवा ॥ ३ ॥ शिखी यज्ञोपवीती स्यात्रिदण्डी सकमण्डलुः || सपवित्रश्च काषायी गायत्री च जपेत्सदा ॥ ४ ॥ सर्वाङ्गोडूलनं कुर्यात्रिपुण्ड्रं च त्रिसंधिषु ॥ शिवलिङ्गार्चनं कुर्याच्छ्रद्वयैव दिने दिने ॥ ५ ॥ तत्र कुटीचकस्य वृत्तिमाह- कुटीचकश्चेति ॥ ३ ॥ ४ ॥ ५ ॥ बहूदकश्च संन्यस्य बन्धुपुत्रादिवर्जितः ॥ सप्तागारं चरेद्वैक्ष्यमेकानं परिवर्जयेत् ॥ ६ ॥
बहूदकस्य वृत्तिमाह — बहूदकश्चेति ॥ ६ ॥
-
गोवालरज्जुसंबद्धं त्रिदण्डं शिक्यमद्भुतम् ॥ पात्रं जलपवित्रं च कौपीनं च कमण्डलुम् ॥ ७ ॥ आच्छादनं तथा कन्थां पादुकां छत्रमडतम् ॥ पवित्रमजिनं सूचीं पक्षिणीमक्षसूत्रकम् ॥ ८ ॥ जलपवित्रं जलशोधनवस्त्रम् || ७ || ८ ||
योगपट्टे बहिर्वत्रं मृत्खनित्रों कृपाणिकाम् ॥ सर्वाङ्गोद्धूलनं तद्वत्रिपुण्ड्रं चैव धारयेत् ॥ ९ ॥
मृत्खनित्रीमिति । मृत्खन्यते यया स्नानाद्यर्थं तां कृपाणिकां कृपाणाकार - तीक्ष्णलोहघटितां यष्टिम् ॥ ९ ॥
शिखी यज्ञोपवीती च देवताराधने रतः ॥ स्वाध्यायी सर्वदा वाचमुत्सृजेत्स्थानतत्परः ॥ १० ॥
स्वाध्यायीति । स्वाध्याय एवोत्सृजमानो वाचमित्यापस्तम्बः ॥ १० ॥
For Private And Personal Use Only