SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे (अथ चतुर्थोऽध्यायः ) ईश्वर उवाच अथातः संप्रवक्ष्यामि गार्हस्थ्यं संग्रहेण ते ॥ अधीय वेदान्विविधान्पूर्वोक्तेनैव वर्मना॥१॥ ब्रह्मचर्यधर्मान्संग्रहेणोक्त्वा गृहस्थधर्मान्वक्तुं प्रतिजानीते-अथात इति । यतश्चरितब्रह्मचर्यस्यैव विवाहः । यथाऽऽहु: 'वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ॥ अविप्लतब्रह्मचर्यों लक्षण्यां त्रियमुद्हेत्' इति ॥ अंतस्तदनन्तरं गृहस्थधर्मा उच्यन्ते ॥१॥ आचार्यानुज्ञया युक्तः स्नात्वा गार्हस्थ्यमाविशेत् ॥ अनुकूले कुले गोत्रप्रवरादिविवर्जिते ॥२॥ सूत्रोक्तेनैव मार्गेण वरयेत्कुलजां स्त्रियम् ॥ सर्वलक्षणसंपन्नां साध्वीमन्यां विवर्जयेत् ॥३॥ ऋक्षसंज्ञां नदीसंज्ञां वृक्षसंज्ञां च वर्जयेत् ॥ तया धर्म चरेनित्यं सहितः संयतेन्द्रियः ॥४॥ स्नात्वा समावर्तनं कृत्वा । प्रवरादिविवर्जित इति । 'असमानार्षगोत्रजाम्' इति स्मृतेः ॥ २॥ ३॥ ४॥ ऋतुकालेऽङ्गनासेवां कुर्यात्प्राज्ञः समन्त्रकम् ॥ देवाग्न्यतिथिभक्ष्यार्थ पचेनैवाऽऽत्मकारणात् ॥५॥ समन्त्रकमिति । 'अमोहमस्मि सा त्वम्' इत्यादयो मन्त्राः॥५॥ आत्मार्थ यः पचेन्मोहानरकार्थ स जीवति ॥ धर्मार्थ जीवनं येषां संतानार्थ च मैथुनम् ॥ ६॥ ते मुच्यन्ते हि संसाराचान्ये नारकिणः सदा ॥ याजनाध्यापनाभ्यां च विशुद्धेभ्यः प्रतिग्रहात् ॥७॥ आत्मार्थमिति । 'नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी' इति श्रुतेः । 'न पचेदन्नमात्मनः' इति स्मृतः ॥ ६ ॥ ७ ॥ १ स्व. माचरेत् । २ क. ख. ग. घ. यतस्त । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy