SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः३] सूतसंहिता। १४६ नित्यं नैमित्तिकं कर्म मोक्षकामनयाऽथवा ॥ विध्युक्तमिति बुद्धया वा शान्तो भूखा समाचरेत् ॥१९॥ व्यत्यासमेव दर्शयति । सव्येनेति ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ।। भिक्षामाहृत्य विप्रेभ्यो लाभे वर्णान्तरेष्वपि ॥ निवेद्य गुरवेऽश्रीयाद्ब्रह्मचारी दिने दिने ॥२०॥ विप्रेभ्य इति । तदलाभे वर्णान्तरेषु ॥ २० ॥ भवत्पूर्व चरेद्रेक्ष्यमुपनीतो द्विजस्तथा ॥ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २१ ॥ अभिशस्तेषु सर्वेषु भिक्षां नित्यं विवर्जयेत् ॥ प्राङ्मुखोऽनानि भुञ्जीत सूर्याभिमुख एव वा ॥२२॥ भवत्पूर्वमित्यादि । भवति भिक्षां देहीति ब्राह्मणः ॥ भिक्षां भवति देहीति क्षत्रियः । भिक्षां देहि भवतीति वैश्य इत्यर्थः ॥ २१ ॥ २२ ॥ प्रक्षाल्य चरणौ हस्तौ दिराचम्यानभुम्भवेत् ॥ प्राणायेत्यादिभिर्मन्त्रैर्तुत्वा प्राणाहुतीदिजः ॥ २३ ॥ वेदाभ्यासैकनिष्ठः स्थानान्यमन्त्ररतो भवेत् ॥ एवमभ्यसतस्तस्य वैराग्यं जायते यदि ॥ २४॥ प्रव्रजेत्परमे हंसे मोक्षकामनया द्विजः ॥ नैष्ठिको वा गृही वाऽपि भवेकामी यथारुचि ॥२५॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे ब्रह्मचर्याश्रमविधिकथनं नाम तृतीयोऽध्यायः ॥३॥ प्राणायेति । प्राणाय स्वाहाऽपानाय स्वाहेत्यादयो मन्त्राः ॥२३॥२४॥२५॥ इति श्रीस्कन्दपुराणे सूतसंहिताटीकायां ज्ञानयोगखण्डे ब्रह्मचर्याश्र मविधिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ १ ग. ' भवेटैक्षमु। २ ग. च। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy