SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेअमृतहेतव इति । अमृतं पुण्यफलं स्वर्गादि विद्याफलं चापवर्गः । तदुभयहेतवे । तथात्वं च गतखण्डे तृतीयाध्याये वर्णितम् ॥ ३१ ॥ ३२ ॥ ३३ ॥ तस्मादिने दिने यूयमिदं स्तोत्रं समाहिताः। पठन्तु भवनाशार्थमिदं हि भवनाशनम् ॥ ३४॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्ड आत्मना सृष्टिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥ पठन्विति पुरुषव्यत्ययः ॥ ३४ ॥* इति श्रीस्कन्दपुराणे सूतसंहिताटीकायां ज्ञानयोगखण्ड आत्मना सृष्टिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥ ईश्वर उवाच अथातः संप्रवक्ष्यामि ब्रह्मचर्याश्रमं मुने। आम्नायैकसुसंसिद्धमादराच्छृणु सुव्रत ॥ १॥ विदितबृहस्पत्यभिमायः शिवो वर्णाश्रमधर्मान्मपञ्चयति-तत्र ब्रह्मचर्यपूर्वकत्वादाश्रमान्तराणां तद्धर्मानेव प्रथममाह-अथातः संप्रवक्ष्यामीति । यतो ब्रह्मचयं प्रथम आश्रमोऽतो बृहस्पतेर्जिज्ञासानन्तरं तद्धर्मान्संप्रवक्ष्यामि । आनापैकेति । 'अष्टवर्षं ब्राह्मणमुपनयीत' इत्यादिश्रुतेः॥ १ ॥ उपनीतो द्विजो वेदानधीयीत समाहितः। दण्डं यज्ञोपवीतं च मेखलां च तथैव च ॥ २॥ कृष्णाजिनं च काषायं शुक्लं वा वस्त्रमुत्तमम् । धारयेन्मन्त्रतो विद्वान्वसूत्रोक्तेन वर्त्मना ॥३॥ उपनीतो द्विज इति । अध्यापनस्य वृद्धयर्थतया प्राप्तत्वेनाविधेयत्वात् 'उपनीय तमध्यापयीत' इतिवाक्ये प्रयोजकव्यापारवाचिभ्यामपनयनाध्यापनधातुभ्यां प्रयोज्यव्यापारलक्षणया 'उपगच्छेत्सोऽधीयीत' इतिहि व्याचक्षते ॥ २॥ ३ ॥ * संहितायाश्च सूतस्य व्याश्यां तात्पर्यदीपिकाम् ॥ सुस्थितामनुगृहणातु विद्यातीर्थमहेश्वरः ॥ १ क. यातेति हि वा । ख. 'यतित्यस्मिन्याको । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy