SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। १४१ तेहि यदा कण्ठादिस्थानेषु लकारादिभूतवर्णैः सह प्राणनियममभ्यस्यन्ति तदी ते कालं वश्चयन्ति । उक्तं हि 'कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गे स्मरेत्क्रमशः। लवरसमीरणषवगैरनिलसमा कालवञ्चनेयं स्यात्' इति । अतस्तेषां वञ्चितकालानां या प्राणरक्षा भवति साऽपि त्वत्प्रसादल. भ्वेत्यर्थः । मूलाधार इति । परा हिशक्तिमूलाधारादामस्तकमुद्गता तत्र चन्द्रमण्डलसंस्पर्शात्रवदमृतधारया सह स्वयमपि पुनर्मूलाधारं प्रविशति । यदाहुः"मूलालवालकुहरादुदिता भवानि निर्भिद्य षट्सरसिजानि तडिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दुनिष्पन्दमानमुखबोधसुधास्वरूपे" इति । तस्याः शक्तेः शक्तिमाशिवोऽप्यभिन्न इति हि निरूपितम् । अतः सोऽपि मूलाधारे प्रविष्ट इत्यर्थः । मूलदीपायेति । सोमसूर्यानयो हि सर्व दीपयन्तीति दीपास्ते हि चित्तकाशेन प्रतिभातमेवा) दीपयितुं शक्नुवन्ति नान्यथा श्रूयते हि"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयममिः ।। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति । अतश्चित्मकाशो मूलदीपस्तदात्मने ॥ २९ ॥ नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने । सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने ॥३०॥ नाभिकन्द इति । तत्र तयोरपि स्थानयोभिव्यक्तिहेतुत्वात् ॥ ३० ॥ नमः शिवाया[तविग्रहाय ते नमः शिवायाइतविक्रमाय ते । नमः शिवायाखिलनायकाय ते नमः शिवायामृतहेतवे नमः ॥३१॥ सूत उवाच य इदं पठते नियं स्तोत्रं भक्त्या सुसंयतः । तस्य मुक्तिः करस्था स्याच्छंकरप्रियकारणात् ॥३२॥ विद्याथा लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ३३॥ १ ग. घ. ह, मनम । २ ङ. 'दा केवलं ते । ३ घ. 'न्द्रस्प । ४ घ. 'कण्ठे प्र। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy