SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४० तात्पर्य दीपिका समेता [२ज्ञानयोगखण्डे वर्णाश्रमधर्माणामुत्पत्ति संग्रहेण स्वरूपं च श्रुतवानपि बृहस्पतिस्तत्मपञ्च शुश्रूषया देवं तुष्टाव -- नमो हराय देवायेत्यादिना ॥ २३ ॥ नमो मौञ्जाय शुभ्राय नमः कारुण्यमूर्तये । नमो देवादिदेवाय नमो वेदान्तवेदिने ॥ २४ ॥ नमः पराय रुद्राय सुपाराय नमो नमः । विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ नमो मायेति । मुञ्जा अन्नं 'ऊर्वै मुञ्जा' इति श्रुतेः । तच्च भोग्यमिति तत्संबन्धी भोगप्रद ईश्वरस्तस्मै । मुञ्जपदेन मुञ्जवान्वा हिमवतः शिखरप्रदेश उपलक्ष्यसे । सोऽस्य निवास इति मौञ्जस्तस्मै । 'परो मौञ्जवतोतीहीति श्रुतेः ॥ २४ ॥ २५ ॥ २५ ॥ नमो भक्तभवच्छेदकारणायामलात्मने । Acharya Shri Kailassagarsuri Gyanmandir कालाय कालकालाय कालातीताय ते नमः ॥ २६ ॥ जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः । नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ २७ ॥ कालाय भाविकालवद्भूतमयं कलयति जगदेष कालोऽतस्तदात्मने | कालकालाय । तमपि कलयते तस्यापि परिच्छेदकाय । कालातीताय स्वयं केनचिदप्यपरिच्छिन्नाय || २६ ॥ २७ ॥ नमः पर्वतराजेन्द्रकन्यकापतये नमः | योगानन्दाय योगाय योगिनां पतये नमः ॥ २८ ॥ योगानन्दायेति । योगः समाधिः । 'युजसमाधौ ' इति धातुः । तत्राभिव्यज्यमानो य आनन्दस्तद्रूपाय | योगाय समाधिरूपाय | योगिनां पतय इति । योगसमाधिष्ठानां समाधिफलप्रदानेन पालकाय च नम इत्यर्थः ॥ २८ ॥ प्राणायामपराणां तु प्राणरक्षाय ते नमः । मूलाधारे प्रविष्टाय मूलदीपाय ते नमः ॥ २९ ॥ प्राणायामेति । श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायामस्तदभ्यासपराणाम् । १ घ. मौआ । २ क, ख, ग. व. 'विभव' । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy