________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२]
सूतसंहिता। अहो तेन विना लोकश्चेष्टतेऽन्यत्र मायया । ब्रह्मचर्याश्रमस्थानां यतीनां च विशेषतः ॥ १७॥ वानप्रस्थाश्रमस्थानां गृहस्थानां वशो हरः । वर्णाश्रमसमाचारात्प्रसन्ने परमेश्वरे ॥ १८॥ साक्षात्तहिषयं ज्ञानमचिरादेव जायते । ज्ञानादज्ञानविध्वस्तिर्न कर्मभ्यः कदाचन ॥ १९ ॥ अज्ञाने सति संसारो ज्ञाने स कथमुच्यते ।
तस्माज्ज्ञानेन मुक्तिः स्यादज्ञानस्य क्षयान्मुने ॥२०॥ चतुर्णामाश्रमाणां शिवप्रसादद्वारा ज्ञानोपयोगमाह-ब्रह्मचर्याश्रमेति ॥१७॥ ॥ १८ ॥ १९ ॥ २० ॥
सर्व संक्षेपतः प्रोक्तं मया वेदविदां वर।
तस्मात्त्वं च महाभाग वर्णाश्रमरतो भव ॥२१॥ सूत उवाचइति श्रुत्वा मुनिश्रेष्ठाः प्रणम्यं परमेश्वरम् ।
स्तोतुमारभते विप्राः प्रसादार्थ त्रिशूलिनः ॥ २२॥ सर्व संक्षेपत इति । अयमुपायोऽनुष्ठेय इति संक्षेपेणोक्तमित्यर्थः । अनु. ठानप्रकारस्तु प्रपञ्चेन वक्ष्यते---वर्णाश्रमरत इति । तत्प्रयुक्तधर्म रत इत्यर्थः । तत्र वर्णधर्माः–'बाह्मणो बृहस्पतिसवेन राजा राजसूयेन यजेत वैश्यो वैश्यस्तोमेन' इत्यादयः । आश्रमधर्माः--'आहूतश्चाप्यधीयीत' इत्यादिब्रह्मचारिधर्माः । 'क्षौमे वसानौ जायापती अग्निमादधीयाताम्' इत्यादयो गृहस्थधर्माः । अरण्यवासादयो वनस्थधर्माः । श्रवणादयो यतिधर्माश्चेति ॥ ॥ २१ ॥ २२ ॥ बृहस्पतिरुवाच
नमो हराय देवाय त्रिनेत्राय त्रिशूलिने । तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥२३॥
१. 'म्य जगदीश्च । २ . श्रमणा' ।
For Private And Personal Use Only