SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डेतु शिवेन बृहस्पतय उपदिष्टपकारवर्णनमेवेत्येतावानेव विशेषः ॥ ३ ॥४॥५॥ ॥ ६॥ ७ ॥ ८ ॥९॥ कालो मायात्मसंबन्धात्सर्वसाधारणात्मकः । हिरण्यगर्भो भगवान्प्रादुरासीत्प्रजापतिः॥१०॥ हिरण्यगर्भ इति । यथोक्तसूक्ष्मभूतेन्द्रियकरणोपाधिको हिरण्यगर्भः पञ्चीकृतभूतमयशरीरः प्रजापतिरूपेण प्रादुरासीदित्यर्थः ॥ १० ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । तेन ब्रह्माण्डमुत्पन्नं तन्मध्येऽयं बृहस्पते ॥ ११ ॥ भुवनानि च देवाश्च शतशोऽथ सहस्रशः। स्थावरं जङ्गमं चैव तथा वर्णाश्रमादि च ॥ १२॥ साम्ब सर्वेश्वरं ध्यात्वा प्रसादात्तस्य निर्ममे। प्रसादेन विना देवाः प्रसादेन विना नराः ॥१३॥ प्रसादेन विना लोका न सिध्यन्ति महामुने । प्रसादाद्देवदेवस्य ब्रह्मा ब्रह्मत्वमागतः ॥ १४॥ प्रथमः शरीरीति स्थूलभूतमयशरीरसंबन्ध एव । तस्यैव यतः प्रथम इत्यर्थः। प्रजापतिपदप्रापकेण तपसा सर्वाणि पापानि पूर्वमोषतीति पुरुषः । श्रूयते हिस यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः, इति ॥ ११ ॥ १२॥ ॥ १३ ॥ १४ ॥ विष्णुर्विष्णुपदं प्राप्तो रुद्रो रुद्रत्वमागतः । वर्णाश्रमाचाखता पुरुषेण महेश्वरः ॥ १५॥ आराध्यते प्रसादार्थ न दुर्वृत्तैः कदाचन । यस्मिन्प्रसन्ने सर्वेषां पुष्टिर्जायेत पुष्कला ॥ १६ ॥ एवं वर्णाश्रमाचाराणामुत्पत्तिमभिधाय तदाचरणोपयोगमाह-वर्णाश्रमा. चारवतेति ॥ १५ ॥ १६॥ घ. 'भेव वि । २ ख. 'स्मात्सर्वान्पा । इ. 'स्मारपूर्वोऽस्मात्याप्मन औ। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy