________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२]
सूतसंहिता। ये तु विवेकवैराग्यसंपन्ना अपि रजोलेशानुवृत्त्या विक्षिप्तचेतसो मध्यमा. धिकारिणः सहसैव चेतस एकाग्रत्वं न लभन्ते तेषामष्टाङ्गयोगो ज्ञानसाधनम् । तंच दशमाध्यायमारभ्य खण्डशेषेण वक्ष्यति । ये तु प्रबलतरदुरितप्रतिबद्धचित्ता औत्सुक्यमात्रेण प्रवृत्ता अप्यप्रतिष्ठितजिज्ञासा अधमाधिकारिणस्तेषां जिज्ञासाप्रतिष्ठाथ वर्णाश्रमधेर्माणां कथंचिद्यतिक्रमे तनिमित्तं तेन विशुद्धानां दानधर्मादिकं चोपायः । ' विविदिषन्ति यज्ञेन' -इत्यादिश्रुतेः। स चायमु. पायो दशमादर्वाचीनेनाध्यायजातेनोपदिश्यत इति सकलोऽयं खण्डो ज्ञानो. पायप्रतिपादकः ॥ २॥
वक्ष्ये कारुण्यतः साक्षाच्छृणु वाचस्पतेऽधुना। आसीदिदं तमोमात्रमात्माभिन्नं जगत्पुरा ॥३॥ ततः सत्त्वगुणक्षोभान्महत्तत्त्वमजायत । एक एव शिवः साक्षात्तिस्रो मूर्तीर्दधौ पुनः ॥ ४॥ रजोगुणं समास्थाय ब्रह्मा स्यात्सृष्टिकारणम् । सत्त्वमास्थाय विष्णुः स्यात्पालनार्थ बृहस्पते॥५॥ तमसा कालरुद्राख्यः सर्वसंहारकारणम् । असंख्या मूर्तयस्तेषां विजायन्ते पृथक्पृथक् ॥६॥ उत्तमाधमरूपेण गुण वैषम्यमात्रतः । शब्दादीनि च भूतानि श्रोत्रादीन्द्रियपञ्चकम् ॥ ७ ॥ वागादिपञ्चकं तद्वत्प्राणापानादिपञ्चकम् । मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥ ८॥ अव्यक्तात्कालंपाकेन प्रजायन्ते पृथक्पृथक् ।
सर्वे कालपराधीना न कालः कस्यचिदशे ॥९॥ तत्रैतस्मिन्नध्याये वर्णाश्रमधर्मेण सृष्टिं वक्तुं महदादिक्रमेण हिरण्यगर्भोत्पत्तिमाह । आसीदिदमित्यादि । एष च सर्गक्रमो गतखण्डेऽष्टमादिष्वध्यायेषु अपश्चित इति नेह पुनरुच्यते । तत्र तु सूतेन मुनिभ्यः स्ववचनेनैवोक्तः । इह
१ घ. तत्र । २ क. घ. 'धर्माः क । ३ टु. 'वकारगका । ४ ङ. 'लरूपेण 'त्रैव त । ६ के. ख. ग. छ, 'धर्माणां हिरण्यगर्भण।
। ५ .
For Private And Personal Use Only