SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे तदहं श्रुतवान्व्यासाजन्मान्तरतपोबलात् । वक्ष्ये वेदविदामद्य युष्माकं तद्यथाश्रुतम् ॥ २८ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे ज्ञानयोगसंप्रदायपरम्पराकथनं नाम प्रथमोऽध्यायः॥१॥ वक्ष्यमाणोपाये समाश्वासजननाय शिवादिवक्त्रपरम्परोपन्यासः ॥ २६ ॥ ॥ २७ ॥ २८॥ इति श्रीसूतसंहिताटीकायां ज्ञानयोगखण्डे ज्ञानयोगसंप्रदाय परम्पराकथनं नाम प्रथमोऽध्यायः॥१॥ ईश्वर उवाच अवाच्यमेतद्विज्ञानमतिगुह्यमनुत्तमम् । आम्नायान्तैकसंसिद्धमशेषक्लेशनाशनम् ॥१॥ सोपायज्ञानयोगे श्रद्वावत एवाधिकारो नेतरस्य । उक्तं हि"अश्रद्वया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्मेत्य नो इह" इति ॥ अतस्तत्र ज्ञाने श्रद्धातिशयजननाय स्वरूपतः फलतश्च तस्य निरतिशयमुत्कर्षमाह-अवाच्यामित्यादिभिः । अशेषक्लेशनिबर्हणत्वेन नित्यनिरतिशयानन्दप्रापकत्वेन चात्यन्तमुत्तमत्वादतिगुहमतिरहस्यमिदं ज्ञानं यत्र तत्रानधिकारिणि न वक्तव्यम् । न विद्यामूखरे वपेदित्यर्थः । तत्र च ज्ञाने त्रिविधा अधिकारिणः । विशुद्धसत्त्वाः समाहितचेतस उत्तमाः । तेषां वेदान्तश्रवणमाअमेवोपायस्तदाह-आम्रायान्तैकसंसिद्धमिति । वक्ष्यति च सप्तमाध्यायावसाने 'सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु ' इति ॥ १॥ अनन्तानन्दमोक्षाख्यब्रह्मप्राप्त्येकसाधनम् । आश्रमैरखिलैर्युक्तमष्टाङ्गैरपि संयुतम् ॥२॥ १. 'रघिसं। २ ग. संयुतः ॥२॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy