________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः१]
सूतसंहिता। सर्वज्ञं सर्वगं शर्व सर्वभूतहिते रतम् । व्याघ्रचर्माम्बरधरं व्याख्यानैकरतं विभुम् ॥२०॥ चतुर्भुजं शरबद्रचन्द्रिकाधवलाकृतिम् । गङ्गाधरं विरूपाक्षं चन्द्रमौलिं जटाधरम् ॥ २१ ॥ नीलग्रीवं चिरं स्मृत्वा व्यासमप्यमितौजसम् । प्रहृष्टः परया भक्त्या परिपूर्णमनोरथः ॥२२॥ लौकिकैदिकैः स्तोत्रैः स्तुत्वा सम्यक्समाहितः।
वक्तुमारभते सर्व प्रणिपत्य महेश्वरम् ॥ २३ ॥ संक्षेपविस्तराभ्यामुपदिष्टस्यापि तत्त्वस्यानादिभवपरम्परोपात्तदुरितोपहतचित्तैर्दुरधिगमत्वादुरितपक्षयद्वारा तेषामपि तदधिगमे क उपाय इति मुनयो जिज्ञासन्ते । भवता कथित मिति । योग उपायः । सोपायं ज्ञानसाधनं शुश्रूषामह इत्यर्थः ॥ १६ ।। १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥२२॥२३॥ सूत उवाच
शृणुध्वं मुनयः सर्वे भाग्यवन्तः समाहिताः।
एतदेव पुराऽपृच्छद्रािं नाथो महेश्वरम् ॥ २४ ॥ गिरां नाथो बृहस्पतिः । सकललोकहितायावश्यप्रष्टव्यमर्थमसौ बृहस्पतिः पृच्छति ॥ २४ ॥
देवोऽपि देवीमालोक्य करुणाविष्टचेतसा ।
प्राह गम्भीरया वाचा गुरवे मुनिपुङ्गवाः ॥ २५ ॥ आलोक्येति । देव्यालोकनाभिप्रायः ॥ २५॥
देव्या अङ्के समासीनः स्कन्दोऽपि श्रुतवांस्तदा। स्कन्दादसिष्ठः संप्राप्तः पूर्वजन्मतपोबलात् ॥ २६ ॥ वसिष्ठाल्लब्धवाशक्तिः शक्तेः प्राप्तः पराशरः।
वान्व्याससंज्ञितः ॥२७॥
.
१. घ. सर्वे । २ ग. 'देवमा । ३ घ ङ. 'श्रेष्ठाद्भग।
For Private And Personal Use Only