________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे महाकायो महाग्रीवो महाबाहुर्महोदरः। उद्दालको महासेन आर्त आमलकप्रियः ॥११॥ एकपादो दिपादश्च त्रिपादः पद्मनायकः। उग्रवीर्यो महावीर्य उत्तमोऽनुत्तमः पटुः ॥ १२॥ पण्डितः करुणः कालः कैवल्यश्च कलाधरः । कल्पान्तः कङ्कणः कण्वःकालःकालाग्निरुद्रकः ॥१३॥ श्वेतबाहुमहाप्राज्ञः श्वेताश्वतरसंज्ञकः। एषां शिष्याः प्रशिष्याश्च पाशविच्छेदने रताः॥१४॥ विचार्यमाणा वेदार्थ विषण्णा विवशा भृशम् ।
समागम्य समाधिस्थं दण्डवत्प्रणिपय च ॥ १५॥ ज्ञातव्यं वस्तु प्रथमखण्डे नोपदिश्य ज्ञानोपायं वक्तुं द्वितीयखण्डमारंभतेकैलासेत्यादिना । कैलासेत्यारभ्य मुनय ऊचुरित्येतदन्तं व्यासवाक्यम् ॥१॥ ॥२॥ ३ ॥ ४ ॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥ १० ॥ ११ ॥ १२॥ १३ ॥ ॥ १४ ॥ १५ ॥
स्तोत्रैः स्तुवा महात्मानं पप्रच्छुः पण्डितोत्तमाः। मुनय ऊचुः
भवता कथितं सर्व संक्षेपाद्विस्तरेण च ॥ १६ ॥ इदानीं श्रोतुमिच्छामो ज्ञानयोगं सहेतुकम् । साक्षादिष्णोर्जगनाथात्कृष्णद्वैपायनागुरोः ॥ १७ ॥ अवाप्तज्ञानयोगस्त्वं न वेत्ता खामृते भुवि । तस्मात्कारुण्यतोऽस्माकं संक्षेपादक्तुमर्हसि ॥ १८॥ इति पृष्टो मुनिश्रेष्ठैः सूतः पौराणिकः प्रभुः । साक्षात्सर्वेश्वरं साम्ब संसारांमयभेषजम् ॥ १९॥ १ य. घ. 'रभ्यते । २ छ. 'रित्यन्तं । ३ स्व. 'वाप्तो ज्ञा'| ४ घ. 'राभय'।
For Private And Personal Use Only