________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
तात्पर्यदीपिका समेता
[१ शिवमाहात्म्य खण्डे
तीर्थेषु श्राद्धकाले वा य इदं श्रावयेन्मुदा । दारिद्यं सकलं त्यक्त्वा स महाधनवान्भवेत् ॥ १७ ॥ यः शृण्वन्देवतापूजां करोतीदं मुदा नरः । तस्य ब्रह्मा हरिश्वापि प्रसीदति महेश्वरः ॥ १८ ॥ भगवान्देवकीसूनुः सर्वभूतहिते रतः । महादेवप्रसादार्थमिदं पठति नित्यशः ॥ १९ ॥ तस्माद्भवद्भिर्मुनयः श्रद्धया परया सह । पठितव्यमिदं नित्यं प्रसादार्थ त्रिशूलिनः ॥ २० ॥ एवमुक्त्वा मुनीन्द्रेभ्यः सूतः सर्वार्थवित्तमः । अतीव प्रीतिमापन्नः सोमं सोमार्धशेखरम् ॥ २१ ॥ सर्वज्ञं सर्वकर्त्तारं संसारामयभेषजम् । सुरासुरमुनीन्द्रैश्व प्रणताङ्घ्रिसरोरुहम् ॥ २२ ॥ ध्यात्वा रत्पङ्कजे भक्त्या प्रसनेन्द्रियमानसः । प्रणम्य दण्डवभौ महादेवं जगद्गुरुम् ॥ २३ ॥ वेदव्यासं च संसारसमुद्रतरणप्लवम् । विहाय मुनिशार्दूलान्कैलास मचलं गतः ॥ १२४ ॥ इति श्रीस्कन्दपुराणे शिवमाहात्म्यखण्डे तीर्थमाहात्म्यकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
षडशीतिमुख इति । मिथुनकन्याधनमीनराशिषु रविसंक्रमे ॥ ५ ॥ ६ ॥ ७ ८ ॥ ९ ॥ १० ॥ ११ || १२ || १३ || १४ || १५ || १६ ।। १७ ।। १८ ।। १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ १२४ ॥
इति श्रीमत्काशी विलास श्रीक्रियाशक्तिपरमभक्त श्रीमत्रयम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसू
Acharya Shri Kailassagarsuri Gyanmandir
तसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे तीर्थमाहाम्यकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ समाप्तमिदं शिवमहात्म्यस्वण्डम् |
For Private And Personal Use Only