________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः १३]
सूतसंहिता |
लौकिकैर्वैदिकैः स्तोत्रैः स्तुत्वा वेदार्थपारगाः । प्रदक्षिणत्रयं भक्त्या यः करोति द्विजोत्तमाः ॥ ७ ॥ ब्रह्महत्यादिभिः पापैर्महद्भिः स विमुच्यते । कृतघ्न्नाश्च विमुच्यन्ते यद्यत्र मरणं गताः ॥ ८ ॥ स्नात्वाऽत्रैव महाभक्त्या मासमात्रं दिने दिने । दृष्ट्वा रामेश्वरं दत्त्वा सुवर्ण निष्कमादरात् ॥ ९ ॥ उपोष्य रजनीमेकां मासान्ते पर्वणि द्विजाः । ब्रह्महत्या सुरापानस्वर्णस्तेयादिपातकैः ॥ १० ॥ बुद्धिपूर्वकृतैर्मर्यो मुच्यते नात्र संशयः । कृतार्थाः स्नानमात्रेण बहवोऽत्राभवन्द्विजाः ॥ ११ ॥ सूत उवाच -
एतानि तीर्थानि पुरोदितानि वेदेषु शास्त्रेषु शिवागमेषु । दृष्ट्वा भवानीपतिरम्बिकायाः प्रोवाच कारुण्यबलेन देवः ॥१२॥ देवी पुनः प्राह गृहस्य शंकरी गुहो विरिञ्चाय चतुर्मुखस्ततः । गुरोर्ममा शेषजगत्प्रसिद्धये गुरुर्ममापारकृपामहोदधिः ॥ १३ ॥ युष्माकं परमकृपाबलेन विप्रा
अस्माभिः कथितमिदं जगद्धिताय । शिष्याणां सततमिदं मुदा भवद्भि
१३१
For Private And Personal Use Only
र्वक्तव्यं परमशिवप्रसादसिद्धये ॥ १४ ॥ य इदं तीर्थमाहात्म्यं पठते सुमुहूर्तके सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ १५ ॥ य इदं शृणुयान्नित्यं सुमुहूर्तेषु वा पुनः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ १६ ॥
१ तत्वा ।