SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्य दीपिका समेता [१ शिवमाहात्म्य खण्डे स्नात्वा नित्यं महाभक्त्या तताप सुमहत्तपः । यस्मिन्ब्रह्मा द्विजाः स्नात्वा कल्पादौ परमेश्वरम् ॥७४॥ पूजयामास लोकानां सृष्टिस्थित्यर्थमादराव | तत्र स्नात्वाऽर्कवारे च ग्रहणे चैव पर्वणि ॥ ७५ ॥ यो ददाति धनं भक्त्या स याति परमेश्वरम् । सूर्यपुष्करिणी नाम तीर्थमत्यन्तशोभनम् ॥ ७६ ॥ श्रीमद्बह्मपुराख्यस्य पश्चिमस्यां दिशि स्थितम् । यत्र स्नात्वाऽर्कवारे च ग्रहणे चन्द्रसूर्ययोः ॥ ७७ ॥ विषुवायनकालेषु पर्वण्याद्रीदिने तथा । पूषा दक्षाध्वरध्वस्तदन्ताल्लब्ध्वा प्रियं गतः ॥ ७८ ॥ पुरा रावणपुत्रस्तु विजित्य सकलं जगत् । इन्द्रजिद्रथमारुह्य प्रमत्तः पण्डितोत्तमाः ॥ ७९ ॥ गच्छन्नत्यन्तवेगेन व्योम्नि लङ्कां प्रति द्विजाः । तीर्थस्यास्य रथस्तीरे दक्षिणे सुस्थितोऽभवत् ॥ ८०॥ सोऽपि तत्प्रेक्ष्य विप्रेन्द्रा विचार्य सुचिरं सुधीः । पूजयामास तत्रैव श्रद्धया परमेश्वरम् ॥ ८१ ॥ देवदेवो महादेवो राक्षसानां महाधनम् । तत्रैवास्ते स्वयं प्रीया भवानीसहितो हरः ॥ ८२ ॥ इन्द्रजित्पुनरादातुं न शशाक तमीश्वरम् । स पुनः सुचिरं कालं विचार्य परमेश्वरम् ॥ ८३ ॥ प्रदक्षिणत्रयं कृत्वा समारुह्य रथोत्तमम् । विवर्णो विवशोऽतीव द्विजा लङ्कापुरीं गतः ॥ ८४ ॥ अस्मिन्पर्वणि यः स्नात्वा भोजयेद्वाह्मणं मुदा । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ८५ ॥ १ ङ. महातपः । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy