SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१३] सूतसंहिता। १२९ यः स्नाति वेदविच्छ्रेष्ठाः कावेर्युदधिसङ्गमे। सर्वाणि तस्य पापानि विनश्यन्ति न संशयः ॥८६॥ श्वेतारण्ये तथा कुम्भकोणे मध्यार्जुने दिजाः। आम्रतीथै हदि स्थाने तथा मङ्गलवंशके ॥ ८७॥ त्रिकोटिहाख्ये कावेरी वरिष्ठा सर्वकामदा। एषु स्थानेषु कावेर्या स्नात्वा पर्वणि यः पुमान् ॥ अर्कवारे तथा विप्राः प्रणम्य परमेश्वरम् ॥ ८८॥ ददाति धनमन्यदा महापापात्प्रमुच्यते । पापिष्ठो वा वरिष्ठो वा यः पुमान्मरणं गतः ॥८९॥ एषु स्थानेषु विप्रेन्द्राः स मुक्तो नात्र संशयः। बहवो मरणान्मुक्ता एषु स्थानेषु सप्तम् ॥१०॥ क्षीरकुण्डमिति ख्यातं भवरोगस्य भेषजम् । सर्वतीर्थोत्तमं पुण्यं सर्वपापप्रणाशनम् ॥ ९१॥ सर्वकामप्रदं दिव्यं श्रीमदल्मीकमध्यगम् । उत्तरे फाल्गुने मासि ब्रह्मणा विष्णुना तथा ॥९२॥ शंकरेण तथा देवैर्मुनिभिः सर्वजन्तुभिः । सेवितं सोमसूर्याभ्यां स्वर्गादल्मीकमागतम् ॥ ९३॥ वामनोगोचर इति । वाड्मनसाऽगोचरः॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ७३ ।। ७४ ॥ ७५ ॥ ७६ ।। ७७॥ ७८॥७९॥८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५॥८६॥ ८७॥ ८८ ।। ८९ ॥ ९० ॥ ९१ ॥ २२ ॥ ९३ ॥ यः स्नाति फाल्गुने मासि श्रद्धयैवोत्तरे दिने । तस्य सर्वाणि पापानि विनश्यन्ति द्विजोत्तमाः॥९४॥ यः स्नालांत्र व्यतीपाते ददाति धनमादरात् । तस्य मुक्तिरयत्नेन सिद्धयत्येव न संशयः ॥ ९५॥ १ ङ. नात्वातु व्य । १७ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy