________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ११]
सूतसंहिता |
गुह्यतीर्थमिदं गत्वा मघ माघमासि च । तत्र स्नात्वा महाभक्त्या वरुणो दग्वकल्मषः ॥ ६५ ॥ एतस्मिन्नन्तरे श्रीमान्नीलकण्ठोऽम्बिकापतिः । प्रसादमकरोत्तस्य वरुणस्य कृपाबलात् ॥ ६६ ॥ वरुणोऽपि महादेवं वाञ्छितार्थप्रदायिनम् । प्रार्थयामास धर्मात्मा लोकानां हितकाम्यया ॥६७॥
Acharya Shri Kailassagarsuri Gyanmandir
१२७
वरुण उवाच
भगवन्देव मत्पूजां मघर्क्षे मांघमासि च । कृत्वा यः श्रद्धयैवास्मिंस्तीर्थे स्नात्वा ददाति च ॥६८॥
स सर्वसमतामेत्येति । समत्वलाभो हि महत्तरं फलम् । तथा च गीतासु'सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ' इति ॥ ६० ॥ ६१ ॥ ६२ ॥ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ ६७ ॥ ६८ ॥
For Private And Personal Use Only
तस्य मुक्तिं प्रयच्छाऽऽशु ब्राह्मणस्यान्त्यजस्य वा । सूत उवाच -
देवदेवो महादेवो वाङ्मनोगोचरो हरः ॥ ६९ ॥ तथैवास्त्विति विप्रेन्द्राः प्राह गम्भीरया गिरा । अत्र पर्वणि यः स्नात्वा ददाति धनमादरात् ॥ ७० ॥ समस्त पापनिर्मुक्तः स याति परमां गतिम् । बहवोऽत्र मुनिश्रेष्ठाः स्नात्वा पर्वणि पर्वणि ॥ ७१ ॥ विहाय सर्वपापानि विमुक्ता भवबन्धनात् । ब्रह्मतीर्थमिति ख्यातं तटाकं ब्रह्मणा कृतम् ॥ ७२ ॥ श्रीमद्रह्मपुराख्यस्य मध्यमे सुप्रतिष्ठितम् । रोमशो भगवान्यस्मिंस्तटाके वेदवित्तमाः ॥ ७३ ॥
ङ. मासि मा । २ ख. लोमशो |