SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२६ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड श्रीमद्व्याघ्रपुरे रम्ये महालक्ष्म्या निषेविते । शिवगङ्गेति विख्यातं तटाकं तीर्थमुत्तमम् ॥ ५५ ॥ तस्य दक्षिणतीरे श्रीशंकरः शशिशेखरः । प्रनृत्यति परानन्दमनुभूयानुभूय च ॥ ५६ ॥ यस्मिन्ब्रह्मादयो देवा मुनयश्च दिने दिने । स्नानं कृत्वा प्रनृत्यन्तं भवानीसहितं शिवम् ॥ ५७ ॥ प्रणमन्ति महाभत्त्या भवरोगनिवृत्तये । यस्मिन्साक्षान्महादेवो भवानीसहितो हरः ॥ ५८ ॥ ब्रह्मविष्ण्वादिभिः सार्धं मवर्क्षे माघमासि च । स्नानं करोति रक्षार्थं प्राणिनामीश्वरेश्वरः ॥ ५९ ॥ अँप्स रैप्सरोभिश्व न कादाचित्कत्वं संकीर्णत्वं किंतु नियतवासोऽपि तासामियं पुरीत्यर्थः ॥ ४० || ४१ || ४२ || ४३ || ४४ ॥ ४५ ॥ ४६ ॥ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ ।। ५७ ।। ५८ ।। ५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मिन्भक्त्या नरः स्नात्वा ददाति धनमादरात् । स सर्वसमतामेत्य ब्रह्माप्येति द्विजोत्तमाः ॥ ६० ॥ गृह्यतीर्थमिति ख्यातं समुद्रे वेदवित्तमाः । श्रीमद्व्याघ्रपुरस्यास्य प्रागुदीच्यां दिशि स्थितम् ॥ ६१ ॥ एकयोजनविस्तीर्णमेकयोजनमायतम् । समुद्रतीरमारभ्य ब्रह्मणा विष्णुना तथा ॥ ६२ ॥ रुद्रेणाशेषदेवाद्यैर्मुनिभिश्व निषेवितम् । पुरा वेदविदां मुख्या वरुणो जलनायकः ॥ ६३ ॥ प्रमादाद्वाह्मणं हत्वा तत्पापविनिवृत्तये । व्याघ्रपादद्वचः श्रुत्वा त्वरया परया सह ॥ ६४ ॥ * असुरैः सुरैरप्सरोभिश्चेत्यपेक्षितमिति प्रतिभाति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy