SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः११] सूतसंहिता। १२५ ददाति विदुषे वस्त्रं धनं धान्यं यथाबलम् । तस्य भुक्तिं च मुक्तं च प्रयच्छाशेषनायक ॥ ४३ ॥ सूत उवाचवीरया प्रार्थितो देवो विप्रेन्द्रा ब्रह्मवित्तमाः। तथा भवत्विति प्राह शिवो गम्भीरया गिरा ॥४४॥ तस्यां स्नात्वाऽर्कवारे यः श्रद्धया परया सह । ददाति धनमन्यद्वा स मुक्तो नात्र संशयः ॥ ४५ ॥ मणिमुक्ता नदी दिव्या महादेवेन निर्मिता। यस्यां विष्णुश्च रुद्रश्च ब्रह्मा वह्निश्च मारुतः॥४६॥ विश्वे देवाश्च वसवः सूर्यो देवः पुरंदरः। आदित्ये चापसंयुक्ते श्रद्धयाऽऽर्द्रादिने द्विजाः ॥४७॥ स्नानं कृत्वा धनं दत्त्वा श्रीमदृद्धाचलेश्वरम् । प्रणम्य दण्डवडूमौ लोकानां हितकाम्यया ॥४८॥ प्रार्थयामासुरीशानं श्रीमदृद्धाचलेश्वरम् । दुर्वृत्तो वा सुवृत्तो वा मूल् वा पण्डितोऽपि वा॥४९॥ ब्राह्मणो वाऽथ शूद्रो वा चण्डालो वाऽन्य एव वा । अस्यामस्मिन्दिने स्नात्वा श्रद्धया शिवयोगिने ॥५०॥ यथाशक्ति धनं दत्त्वा धान्यं वा वस्त्रमेव वा। श्रीमदृद्वाचलेशाय ब्राह्मणा वेदवित्तमाः ॥ ५१ ॥ उपोष्य प्रातरवेशं श्रीमहृवाचलेश्वरम् । यो नमस्कुरुते तस्य प्रयच्छ परमां गतिम् ॥ ५२ ॥ इत्येवं प्रार्थितः सर्वैः श्रीमदृद्धाचलेश्वरः । तथैवास्त्विति संतुष्टः प्राह गम्भीरया गिरा ॥ ५३॥ तस्यामादिने नाति श्रद्धया मानवो द्विजाः । तस्य संसारविच्छित्तिः सिद्धा नात्र विचारणा ॥५४॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy