________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे सर्वपापविनिर्मुक्तः शिवसायुज्यमामुयात् । कम्पा नाम नदी पुण्या कमलासननिर्मिता ॥३३॥ यस्यां द्विजोत्तमाः सात्वा शंकरं शशिशेखरम् । दृष्ट्वा भक्त्या नरः सद्यो मुच्यते भवबन्धनात् ॥३४॥ आदिलिङ्गे महाविष्णुर्यस्यां स्नात्वा महेश्वरम् । समाराध्य स्थितस्तत्र देवदेवस्य संनिधौ ॥ ३५ ॥ निरीक्ष्य श्रद्धया विप्रा नदी तामच्युतो हरिः ।
तस्यां स्नात्वाऽर्कवारेच ब्राह्मणाः श्रद्धया सह ॥३६॥ सह्यादिति । सबपर्वतात् ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥
हस्ते वा भगनक्षत्रे तथा पर्वण्यपि द्विजाः। विप्रायानादिकं दत्त्वा नरः स्वर्गे महीयते ॥ ३७॥ कुटिला नाम या लोके प्रसिद्धा महती नदी । यस्यास्तीरे मुनिश्रेष्ठा वीराख्या वेदवित्तमाः॥ ३८ ॥ श्रावण्यां पौर्णमास्यां तुं भद्रकाली दृढव्रता ।
अधिकासंज्ञितां रम्यां पुरीमादित्यनिर्मिताम् ॥३९॥ भगनक्षत्र उत्तरफल्गुन्याम् ॥ ३७ ॥ ३८ ॥ ३९ ॥
अप्सरोगणसंकीर्णामाश्रितामसुरैः सुरैः । अभ्येत्याशेषदेवानामादिभूतं महेश्वरम् ॥ ४०॥ प्रतिष्ठाप्य जलेनास्याः स्नाप्य श्रद्धापुरःसरम् । प्रार्थयामास धर्मज्ञा देवदेवं घृणानिधिम् ॥ ११ ॥ यः पुमान्देवदेवास्यां स्नात्वा श्रद्धापुरःसरम् । श्रावण्यां पौर्णमास्यां वा दृष्ट्वा स्तुत्वाऽभिवन्द्य च॥४२॥
ख. पम्पा ना २ ख. वा। ३ ख. वेदवेछ ।
For Private And Personal Use Only