________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१३] सूतसंहिता।
१२३ विशाख इति । विशाखानक्षत्रयुक्ते सूर्यवारे । 'नक्षत्रेण युक्तः कालः' इत्यण् । संज्ञापूर्वकस्य विधेरनित्यत्वादादिवृद्धयभावः । सूर्यवारस्य विशेषस्योपादानात् 'लुबविशेषे' इति न लुप् । अत एव युक्तवद्यक्तिवचने न भवतः । अथ वा सूर्यबारे विशाखे स्यातां चेदित्यर्थः ॥१७॥१८॥१९॥२०॥२१॥२२॥
सर्वयोगीश्वराराध्या सद्यादेवोद्गता शुभा । इन्द्रनीलगिरिर्यस्यां स्नात्वाऽभूच्छंकरासनम् ॥ २३ ॥ नियं यस्यां महादेवः स्नाला विष्ण्वादिभिः सह । तस्मिन्गिरिखरे श्रीमान्वर्तते शिवया सह ॥२४॥ स्नात्वा तस्यां नरः पर्वण्युपोष्य ब्रह्मवित्तमाः। यथाशक्ति धनं दत्त्वा मुच्यते भवबन्धनात् ॥२५॥ सुवर्णमुखरी नाम नदी संसारनाशिनी । समस्तप्राणिनां भुक्तिमुक्तिसिद्धयर्थमास्तिकाः॥ २६ ॥ केवलं कृपया साक्षाच्छिवेन परमात्मना । निर्मिता मघनक्षत्रे माघमासि द्विजोत्तमाः ॥२७॥ यस्यास्तीरे महादेवः शंकरः शशिभूषणः । श्रीमहक्षिणकैलासे शिवया पस्या सह ॥२८॥ वर्तते तां समालोक्य सुवर्णमुखरी नदीम् । यस्यां संभूय तीर्थानि स्वपापध्वस्तिसिद्धये ॥२९॥ सानं कृत्वा महाभक्त्या मघः माघमासि च । यथाशक्ति धनं दत्त्वा श्रद्वया शिवयोगिने ॥३०॥ श्रीकालहस्तिशैलेशं शिवं शिवकरं नृणाम् । श्रीमदक्षिणकैलासवासिनं वासवार्चितम् ॥ ३१ ॥ प्रणम्य दण्डवद्भक्त्या विमुक्ता यधपञ्चरात् । नात्वा तस्यां नरो भक्त्या मघर्खे माघमासि च॥३२॥
१५ ग. 'योगेश्व
For Private And Personal Use Only