________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे आर्द्रायां मृगशीर्षे वा गङ्गासागरसंगमे । नात्वा मध्यंदिने दत्त्वा यथाशक्ति धनं मुदा ॥१३॥ सर्वपापविनिर्मुक्तः शिवसायुज्यमामुयात् । नर्मदा च महातीर्थ नरकहारनाशकम् ॥ १४॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितं शंकरेण च । तत्र सात्वा यथाशक्ति धनं दत्त्वाऽऽदरेण च ॥ १५॥ ब्रह्मलोकमवाप्नोति नरो नात्र विचारणा।
यमुना च महातीर्थ यमेनापि निषेवितम् ॥ १६ ॥ श्रद्धयेति । तद्विरहे तीर्थानामपि निष्फलत्वम्
'मत्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना पत्र सिद्धिर्भवति ताहशी' इत्याहुः ॥२॥ ॥३॥ ॥४॥५॥६॥७॥ ८॥९॥ १० ॥११॥१२॥ १३॥ १४ ॥१५॥ १६ ॥
तत्र स्नात्वा नरो भक्त्या खौ वृषभसंस्थिते । विशाखे सूर्यवारे वा दत्त्वा विप्राय भोजनम् ॥ १७॥ सर्वपापविनिर्मुक्तः शिवेन सह मोदते। सरस्वतीति विख्याता नदी सर्ववरप्रदा ॥ १८॥ यस्यां वागीश्वरी देवी वर्तते सर्वदाऽऽदरात् । तस्यामादिने सात्वा यस्ििचच्छिवयोगिने ॥१९॥ दत्त्वा पुत्रादिभिः सार्ध नरः स्वर्गमवाप्नुयात् । गोदावरीति या लोके सुप्रसिद्धा महानदी ॥२०॥ सिंहराशौ स्थिते सूर्य सिंहयुक्त बृहस्पतौ। तस्यां स्नात्वा यथाशक्ति धनं दत्त्वा तु मानवः ॥२१॥ गङ्गायां द्वादशाब्दस्य नित्यं स्नानफलं लभेत् ।
कृष्णवेणीति या लोके प्रोक्ता विप्रा महानदी ॥२२॥ १ घ. ङ. शनम् । २ ख. तत्र । घ. यस्य । ३ ख. सिंहराशिगुते सूर्ये सिंहस्थे च बृहस्पतौ ।
For Private And Personal Use Only