SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१३] भूतसंहिता। १२१ सूत उवाचवदामि तीर्थमाहात्म्यं संग्रहेण मुनीश्वराः । शृणुध्वं सर्वशास्त्रोक्तं श्रद्वया परया सह ॥२॥ गङ्गादारं महातीर्थ सर्वदेवनिषेवितम् । तत्र नात्वा खौ मेषे स्थितेऽश्विन्यां मुनीश्वराः ॥३॥ यथाशक्ति धनं दत्त्वा श्रद्धया शिवयोगिने । उपोष्य सर्वपापेभ्यो मुच्यते मानवो द्विजाः ॥४॥ सोमतीर्थमिति ख्यातं सोमनाथस्य संनिधौ । समुद्रे पश्चिमे विप्राः स्थितं योजनमायतम् ॥५॥ विस्तीर्ण योजनं विप्रा विश्वैर्देवैर्निषेवितम् । पर्वण्या दिनेऽष्टम्यां व्यतीपाते तथा द्विजाः ॥ ६॥ अर्कवारे चतुर्दश्यां स्नात्वा दत्त्वाऽध भोजनम् । प्रणम्य सोमनाथाख्यं सोमं सोमविभूषणम् ॥ ७ ॥ उपोष्य रजनीमेकां भस्मदिग्धतनूरुहः । सर्वपापविनिर्मुक्तः शंकरं याति मानवः ॥ ८॥ वाराणस्यां महातीर्थ नाम्ना तु मणिकर्णिका । तत्र सात्वां महाभक्त्या प्रातरेव समाहितः ॥९॥ दृष्ट्वा विश्वेश्वरं देवं करुणासागरं हरम् । यथाशक्त्याऽनपानादि दत्त्वा मुक्तो भवेन्नरः॥ १० ॥ प्रयागाख्यं महातीर्थ भवरोगस्य भेषजम। भरण्यां कृत्तिकायां तु रोहिण्यां वा विशेषतः॥११॥ तत्र स्नात्वा वो मेषे वर्तमाने मुनीश्वराः । यथाशक्ति धनं दत्त्वा विमुक्तो मानवो भवेत् ॥ १२॥ ख. 'वा नगे भी For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy