________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे अविज्ञायाऽऽत्मसद्भावं स्ववर्णाश्रममास्तिकाः । जहाति यः स मूढात्मा पतत्येव न संशयः ॥५८॥ तस्मात्सर्वप्रयत्नेन श्रद्धया सह सर्वदा ।
कर्तव्यो वर्णिभिर्धर्मः श्रौतः स्मार्तश्च मुक्तये॥ ५९॥ संश्वासौ भावश्च सद्भावः पारमार्थिक रूपमात्मनस्तदसाक्षात्कृत्य कर्मपरित्यागे पातित्यमाह-अविज्ञायेति ॥ ५८ ॥ ५९॥
इत्याकर्ण्य मुनीश्वरा श्रुतिगतं मूतोपदिष्टं परं सत्यानन्तसुखप्रकाशपरमं ब्रह्मात्मविज्ञानदम् । श्रुत्वा जातिविनिर्णयं सकललोकाम्भोधिपारं सदा सत्यास्तेयदयार्जवादिसहितास्तुष्टा बभूवुर्धशम् ॥६०॥ इति श्रीस्कन्दपुराणे सतसंहितायां शिवमाहात्म्यखण्डे
जातिनिर्णयो नाम द्वादशोऽध्यायः ॥ १२॥ सत्यानन्तेति । जातिनिर्णयो हि तत्प्रयुक्तकर्मानुष्ठानद्वारा तत्त्वज्ञानहेतुः॥६०॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे जातिनिर्णयो
नाम द्वादशोऽध्यायः ॥ १२॥
त्रयोदशोऽध्यायः।
नैमिषीया ऊचुःभगवस्तीर्थमाहात्म्यं सर्वशास्त्रार्थवित्तम ।
ब्रूहि कारुण्यतोऽस्माकं हिताय प्राणिनां मुदा ॥१॥ तत्त्वज्ञानमन्तरेण कर्मत्यागे पातित्यमुक्तम् । प्रमादाजातस्य तस्य निर्णेजने तीर्थसेवा सुकरोपाय इति मन्यमाना मुनयस्तीर्थमाहात्म्यं जिज्ञासन्तेभगवस्तीर्थति ॥ १॥
For Private And Personal Use Only