SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ भध्यायः१२]] सूतसंहिता। स्वस्वरूपापरिज्ञानादेहेऽहंमानं आत्मनः। अपरिज्ञानमप्यस्य ब्राह्मणा वेदवित्तमाः॥५३॥ आदिमन्न भवत्यन्तस्तस्य ज्ञानेन सुव्रताः। ज्ञानं वेदान्तविज्ञानमिति सद्गुरुनिर्णयः ॥ ५४॥ __ अध्यासोपादानमज्ञानमाह-स्वस्वरूपेति । अज्ञानस्य तर्हि को हेतुः । अनादित्वे वा तस्याऽऽत्मवदन्तोऽपि न स्यादिति चेन्न । यथा प्रागभावस्यानादेर्भावेन निवृत्तिरेवमनादेरज्ञानस्य ज्ञानेन निवृत्तिरित्याह-अपरिज्ञानमिति । लोकायतादिशास्त्रोक्तमज्ञानादज्ञाननिवृत्तिं वारयितुमाह-ज्ञानमिति । यथार्थदर्शिनो यथादृष्टार्थवादिनश्च व्यासादयस्ते सद्गुरवः । लोकापतादयस्तु विप्रलम्भकत्वादज्ञत्वाच्च नैविधा इत्यर्थः ॥ ५३॥ ५४॥ यस्यापरोक्षविज्ञानमस्ति वेदान्तवाक्यजम् । तस्य नास्ति नियोज्यत्वमिति वेदार्थनिर्णयः॥ ५५॥ ज्ञानिनस्तहि जात्यभावे कथं तस्य तत्मयुक्तौ विधिनिषेधाविति चेन्न स्त एव तस्य तावित्याह । यस्यापरोक्षेति । वेदार्थेति । ' स न साधुना कर्मणा भूयानो एवासाधुना कनीयानिति ' वाजसनेयश्रुतिः । एष नित्यो महिमा बामणस्य न कर्मणा वर्धते नो कनीयान् ' इति काठकश्रुतिः ॥ ५५ ॥ वर्णिनामाश्रमाः प्रोक्ताः सर्वशास्त्रार्थवेदिभिः । तेषां वर्णाश्रमस्थानां वेदकिंकरता सदा ॥ ५६ ॥ वर्णधर्मवदाश्रमधर्मोऽपि तत्त्वज्ञानविरहिणामेवेत्याह-वर्णिनामिति । वेदकिंकरता वेदेन कर्मसु नियोज्यता ॥ ५६ ।। अस्ति चेद्ब्रह्मविज्ञानं स्त्रिया वा पुरुषस्य वा । वर्णाश्रमसमाचारस्तयोर्नास्त्येव सर्वदा ॥ ५७ ॥ स्त्रीत्वादीनामपि वर्णाश्रमवदेहधर्मत्वेन देहाध्यासविरहे सति कर्मस्वनियोज्यत्वे न तत्कृतः कोऽपि विशेष इत्याह-अस्ति चेदिति ॥ ७ ॥ १ ख. इ. 'नमात्म। र ग. वर्णाना। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy