SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११६ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे जातः शूद्रेण राजन्यां वैदेहाख्यश्व पुल्कसः । अस्यामनेन चौर्येण वेलवाख्यो विजायते ॥ २६ ॥ जातः शूद्रेण वैश्यायां भवेत्पत्तनशालिकः । अनेनास्यi rasoi चौर्याह्मविदां वराः ॥ २७ ॥ राजन्यां राजन्यायाम् । वैदेह पुल्कसशब्दौ पर्यायौ ॥ २६ ॥ २७ ॥ चौर्याच्छूद्रेण शूद्रायां जातो माणविको भवेत् । अम्बष्ठायां समुत्पन्नः सवर्णेन द्विजोत्तमाः ॥ २८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अपरा अपि नानाविधाः संकरजातीराह - - अम्बष्ठायामित्यादिना । अम्बछायां क्षत्रियाद्वैश्यायां जातायां सवर्णेन ब्राह्मणात्क्षत्रियायां जातेन ॥ २८ ॥ आग्नेयनर्तकाख्यः स इति प्रोक्तो महात्मभिः । करणायां तु विप्रेन्द्रा माहिष्याद्यो विजायते ॥ २९ ॥ स तक्षा रथकारश्व प्रोक्तः शिल्पी च वर्धकी । लोहकारश्च कर्मार इति वेदार्थवेदिभिः ॥ ३० ॥ विप्रायामुग्रतो जातस्तक्षवृत्तिः प्रकीर्तितः । वैश्यायां तेन निष्पन्नः समुद्रो नाम जायते ॥ ३१ ॥ ब्राह्मण्यां यो निषादेन जनितः स तु नापितः । नृपायां यो निषादेन जातोऽधोनापितः स्मृतः ॥३२॥ विप्रायां नापिताजातो वेणुकः परिकीर्तितः । राज्यां यो जनितस्तेन कर्मकारः स उच्यते ॥ ३३ ॥ द्विजोत्तमायां दौष्यंन्ताङ्गागलब्धः प्रजायते । वैश्यायां तु निषादेन सुनिषादोऽभिजायते ॥ ३४ ॥ ब्राह्मण्यां यो मुनिश्रेष्ठा वैदेहेन प्रजायते । स नाम्ना रजको ज्ञेयः पण्डितैः पण्डितोत्तमाः ॥ ३५ ॥ १ ख. 'प्यन्वाद्वा' For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy