________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१२]
सूतसंहिता। स्त्री दौष्यन्ती । आयोगव्यामिति । शूद्राद्वैश्यायां जात आयोगवः । तज्जाता ज्यायोगवी । एतावत्पर्यन्तं ब्राह्मणाब्राह्मण्यादिषु चौर्यजा अचौर्यजाश्चोक्ताः॥१७॥
विप्रायां क्षत्रियाजातः मृत इत्युच्यते बुधैः।
चौर्येणास्यामनेनोत्थो स्थकार इति स्मृतः ॥ १८॥ भत्रियेण ब्राह्मण्यादिषु पूर्ववद्विविधानाइ-विषायां क्षत्रियादित्यादिना॥१८॥
क्षत्रियस्त्रीषु वैश्यात्तु भोजश्चौर्यादिजायते । वैश्यायां क्षत्रियाजातो माहिष्योऽम्बष्ठसंज्ञितः ॥१९॥ चौर्येणास्यामनेनोत्थो भवेदविरसंज्ञितः ।
शूद्रायां क्षत्रियाजातो दौष्यन्त्याख्यो भवेद्विजाः॥२०॥ माहिष्य इत्यम्घष्ठ इति नामद्वयेनोक्त इत्यर्थः ॥ १९ ॥ २० ॥
चौर्येणास्यामनेनोत्थः शूलिको भवति द्विजाः । ब्राह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः ॥२१॥ वैश्याहाह्मण्यादिषु पूर्ववद्विविधानाह-ब्राह्मण्यो वैश्यतो जात. इत्यादिना ॥ २१ ॥
अस्यामनेन चौर्येण म्लेच्छो विप्राः प्रजायते । जातो वैश्यावृपायां यः शालिको मागधश्च सः॥२२॥ अस्यामनेन चौर्येण पुलिन्दो जायते बुधाः। मणिकारस्तु वैश्यायां चौर्यादेश्यन जायते ॥ २३ ॥ शूद्रायां वैश्यतो जात उग्र इत्युच्यते बुधैः ।
अस्यामनेन चौर्येण कटकारः प्रकीर्तितः ॥२४॥ शालिकमागधशब्दौ पर्यायो ।। २२ ॥ २३ ॥ २४ ॥
शूद्रादिप्राङ्गनायां तु चण्डालो नाम जायते ।
अस्यामनेन चौर्येण बाह्यदासस्तु जायते ॥२५॥ शूद्राद्रामण्यादिषु पूर्ववद्विविधानाह-शूद्राद्विपाङ्गनायामित्यादिना ॥२५॥
For Private And Personal Use Only