SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ तात्पर्य दीपिका समेता [१] शिवमाहात्म्यखण्डे वैधेनेति । विवाहादि विध्युक्तेन । अन्यथा जातानां कुण्डगोलकादीनां सत्यपिसवर्णत्वे शूद्रधर्मत्वं स्मर्यते 'शूद्राणां तु सधर्माणः सर्वेऽपध्वस्तजाः स्मृताः' इति । संकीर्णाननुलोमजानाह । अवरास्विति । क्षत्रियवैश्यशूद्रामु ब्राह्मणस्य । वैश्यशूद्रयोः क्षत्रियस्य । शूद्रायां वैश्यस्येत्यर्थः ॥ १० ॥ उत्तमास्ववराज्जातः प्रतिलोम इति स्मृतः । वर्णस्त्रीष्वनुलोमेन जातः स्यादान्तरालिकः ॥ ११ ॥ वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः । ब्राह्मण्यां सधवायां यो ब्राह्मणेन द्विजोत्तमाः । जातश्वर्येण कुण्डोऽसौ विधवायां तु गोलकः ॥ १२ ॥ उत्तमास्विति । ब्राह्मण्यां क्षत्रियादित्रयात् । क्षत्रियायां वैश्यशूद्राभ्याम् । वैश्यायां शूद्रादित्यर्थः । वर्णीष्विति । अनुलोमप्रतिलोमजाः स्त्रियो व्यवच्छिनत्ति वर्णास्वत्यपि । कुण्डगोलकयोर्लक्षगमाह ब्राह्मण्यां सधवायामिति ॥ ११ ॥ १२ ॥ नृपायां ब्राह्मणाज्जातः सवर्ण इति कीर्तितः ॥ १३ ॥ चौर्यास्यामनेोत्थो नाम्ना नक्षत्रजीवनः । वैश्यायां ब्राह्मणाज्जातो निषादो वेदवित्तमाः ॥ १४ ॥ पायामिति | क्षत्रियायामनुलोमजो विधिना जातश्चेत्सवर्णः । चौर्येण चेन्नक्षत्रजीवीत्यर्थः ॥ १३ ॥ १४ ॥ • अस्यामनेन चौर्येण कुम्भकारोऽभिजायते । ऊर्ध्वनापित एवासौ नाम्ना वेदविदां वराः ॥ १५ ॥ शूद्रायां ब्राह्मणेनोत्थो द्विजाः पारशवः स्मृतः । चौर्येणास्या निषादोऽभून्नाम्ना वेदार्थवित्तमाः ॥ १६ ॥ कुम्भकारस्यैव नामान्तरमूर्ध्वमापित इति ॥ १५ ॥ १६ ॥ ब्राह्मणाजात आपीताख्यो भवेद्दिजाः । आयोगव्यां तु विप्रेण पिङ्गलो नाम जायते ॥ १७ ॥ दौष्यन्त्यामिति । शूद्रायां क्षत्रियाज्जातो दौष्यन्त इति वक्ष्यति । तज्जातिः For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy