SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्यायः१२] सूतसंहिता। पुरा सर्वे मुनिश्रेष्ठाः प्रलये विलयं गते। अन्धकाराते लोके विष्णोरंशो महाद्युतिः ॥३॥ सहस्रशीर्षा पुरुषो विष्णुर्नारायणाभिधः । क्षीराब्धौ चिन्तयन्द्रं सुष्वाप ब्रह्मवित्तमाः ॥४॥ कदाचित्पङ्कजं विप्रास्तरुणादित्यसंनिभम् । तस्य मुप्तस्य देवस्य नाभ्यां जातं महत्तरम् ॥५॥ हिरण्यगर्भो भगवान्ब्रह्मा विश्वजगत्पतिः। आस्थाय परमां मूर्ति तस्मिन्पो समुद्रुभौ ॥६॥ प्रलय इति । नैमित्तिकालयावसरे लोकत्रये विलयं गते सति मुखापेत्यन्वयः । प्रलयकाले वा विलयं प्राप्ते ॥ ३ ॥ ४ ॥ ५॥ ६॥ तस्य वेदविदां श्रेष्ठा ब्रह्मणः परमेष्ठिनः । महादेवाज्ञया पूर्ववासनासहितान्मुखाद ॥७॥ सर्गावसरे ब्रह्मणो मुखाह्राह्मणा जाता इत्यनेनान्वयः । मुखाड्राह्मणा इति श्रूयते हि 'बाह्मणोऽस्य मुखमासीद्भाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्यां शूद्रो अजायत' इति ॥ ७ ॥ ब्राह्मणा ब्राह्मणस्त्रीभिः सह जातास्तपोधनाः। तस्य हस्तात्सह स्त्रीभिर्जज्ञिरे पृथिवीभुजः ॥ ८ ॥ ऊरुभ्यां सहिताः स्त्रीभिर्जाता वैश्याः शिवाज्ञया । पद्भ्यां शूद्राः सह स्त्रीभिर्जज्ञिरे वेदवित्तमाः ॥९॥ ब्राह्मणा इत्यादि जात्यभिप्रायमत उक्तं सह स्त्रीभिरिति ॥ ८ ॥ ९ ॥ स्वस्त्रीषु स्वस्य वैधेन मार्गेणोत्थः स्वयं भवेत् । अवरामूत्तमाजातस्त्वनुलोमः प्रकीर्तितः ॥ १०॥ असंकीर्गस्य जातिचतुष्टयस्य लक्षणमाह--स्वस्त्रीष्विति । प्रामण्यां ब्राह्मणस्य क्षत्रियायां क्षत्रियस्येत्यादि । स्मर्यते हि 'सवर्णेभ्यः सवर्णाम जायन्ते हि स्वजातयः' इति । १ ख. ग. विश्वो नारा । २ ग. 'त्यर्थः । । ३ क. ख. 'द्विजातयः । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy