SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७ अध्यायः१२) सूतसंहिता। द्विजोत्तमायां चण्डालाद्यः पुमाञ्जायते भुवि । श्वपचः स तु विज्ञेयः सर्वशास्त्रविशारदैः ॥ ३६॥ श्वपचादिप्रकन्यायां गुहको जायते सुतः। वैश्यायां यस्तु चण्डालाजातो दन्तकवेलकः ॥ ३७॥ जनितोऽनेन शूद्रायां विप्रा आश्रमकः स्मृतः। प्रतिलोमनिषादाद्यः शूद्रायां स तु भैरवः ॥ ३८॥ शूद्रायां मागधाज्जातः कुकुन्दः प्रोच्यते बुधैः। नृपायां मागधाज्जातः खनकः परिकीर्तितः ॥ ३९ ॥ खनकाद्राजकन्यायामद्वन्धा नाम जायते । अयोगवेन ब्राह्मण्यां चर्मकारः प्रजायते ॥४०॥ विप्रव्रात्यात्तु विप्रायां बन्दिको नाम जायते । क्षत्रव्रात्यानृपायां तु खेल्लो मत्तश्च मल्लकः ॥ ४ ॥ मल्लात्तु पिच्छलस्तेन नटाख्यो जायते भुवि । नटात्करणसंज्ञस्तु करणाकर्मसंज्ञितः ॥४२॥ तेन मिल उत्पनो नृपायां वेदवित्तमाः। वैश्यव्रात्यात्तु वैश्यायां सुधन्वा जायते द्विजाः ॥४३॥ अनेनावार्यसंज्ञस्तु आरुषो भारुषादपि । द्विजन्मा जायते तस्मान्मैत्रो मैत्रात्तु सात्वतः ॥४४॥ करणायामिति । शूद्रायां विश उत्पन्नायाम् । माहिष्यादिति । अम्बष्ठापरपर्यायात् । उच्यत इति । शूद्रायां वैश्यतो जात उग्र इत्युच्यते तस्मात्तेनेति ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ॥ ३९ ॥ ४० ॥४१॥ ४२ ॥ ४३ ॥ ४४॥ मैत्राद्वैदेहको जातः स मातङ्गश्च कीर्तितः । मातङ्गाजायते सूतः मूताइस्युः प्रजायते ॥४५॥ १ ग. चाण्डालाद्यः । २ ख. 'श्रमिकः । ३ . मल्लो । ४ ख. भारूषो। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy