SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता कर्मणैव समुत्पन्नं समस्तमिति केचन । तच्छ्रुतिस्मृतिवादस्य विरुद्धं मुनिपुङ्गवाः ॥ २३ ॥ [१शिवमाहात्म्यखण्डे कर्मणैवेति । अनीश्वरवादिनः । श्रुतिस्मृतिवादस्य विरुद्धमिति । ननु पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति वाजसनेयोपनिपदि कर्मणैवेति पक्षः स्वीकृतः । न । ईश्वराधिष्ठितयोरेव तयोः स्वरूपलाभः स्वकार्यकरेत्वं चेत्यपि श्रुतावेवोदीरणात् । श्रूयते हि । एषै उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तं यमधो निनीषतीति । व्यासोऽपीश्वरादेव फलप्राप्तिमाह – फलमत उपपत्तेरिति । स्मर्यते च 'अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते' इति ॥ २३ ॥ पुरा हिमवतः पार्श्वे मुनिः सत्यवतीसुतः । सुमन्तु जैमिनिश्चैव वैशंपायन एव च ॥ २४ ॥ पैलः कपिलसंज्ञश्च तथा विप्राः पतञ्जलिः । अक्षपादः कणाश्व तथैवाऽऽङ्गिरसो मुनिः ॥ २५ ॥ मुकुन्दो मोचकश्चैव महाकाली महामतिः । कालरूपः कलामाली कामरूपः कपिध्वजः ॥ २६ ॥ वेदज्ञो वैदिको विद्वान्विंद्वेषी वेणुवाहनः । बोल्वो बकुलो वह्निर्वदण्डः परंतपः ॥ २७ ॥ पापनाशः पवित्रश्च तथाऽन्ये च महर्षयः । परस्परं विचार्याथ श्रद्धया परमर्षयः ॥ २८ ॥ संशयाविष्टमनसस्तपश्वेरुर्महत्तरम् । एतस्मिन्नन्तरे रुद्रः प्रसन्नः करुणानिधिः ॥ २९ ॥ स्वयमाविरभूत्तेषां पुरतः परमेश्वरः । For Private And Personal Use Only तं दृष्ट्वा मुनयः सर्वे प्रसन्नेन्द्रियबुद्धयः ॥ ३० ॥ प्रणम्य परया भक्त्या भगवन्तं त्रिलोचनम् । कृताञ्जलिपुटाः सर्वे पप्रच्छुः परमेश्वरम् ॥ ३१ ॥ १ क. कारणं । २ घ. रणं च ३ . प एव तु सा । ४ ख. विद्वेषो । ५ ङ. बिल्वलो
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy