________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः११] सूतसंहिता।
१०२ धर्मस्य दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश । तथैव तेन संपन्नाः श्रद्धाद्याः कन्यका दश ॥२०॥ ताभ्यः ख्यात्यादयो विप्रावशिष्टाः षट्च पञ्च च । एवं कर्मानुरूपेण प्राणिनामम्बिकापतेः ॥
आज्ञया बहवो जाता असंख्याता द्विजर्षभाः ॥२१॥ __यज्ञस्येति । दक्षिणायामिति शेषः । दक्षाज्जाता इति । चतुर्विंशतिकन्याः। तत्र श्रद्धाद्यास्त्रयोदश धर्मस्य पत्न्यः । यदाह पराशरः
'श्रद्धा लक्ष्मीकृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया। बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः' इति । ताभ्यः श्रद्धादिभ्यत्रयोदशभ्योऽवशिष्टाः ख्यात्यादय एकादश । तास्वटौ दक्षव्यतिरिक्तेभ्यः प्रजापतिभ्योऽष्टभ्यो भवायैका पितृभ्य एका वह्नय एका । यदाह पराशरः।
'ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिः सत्पथसंभूतिः स्मृतिः भीतिः क्षमा तथा ॥ सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा । भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा । अत्रिर्वसिष्ठो वद्भिश्च पितरश्च यथाक्रमम् ।
ख्यात्याद्या जगृहुः कन्याः' इति ॥ १९ ॥ २० ॥ २१ ॥ स्वभावादेव संभूतं समस्तमिति केचन ।
तन सिध्यति विप्रेन्द्रा देशकालाद्यपेक्षया ॥२२॥ न केनचित्सृष्टं स्वाभाविकमेवैतज्जगदिति लोकायतिकास्तमुपन्यस्य निरस्पति । स्वभावादेवेति । काश्मीरेष्वेव कुङ्कममिति देशापेक्षा । अहन्येव कमलानां विकासः । रात्रावेवोत्पलानामिति कालापेक्षा । आदिशब्देन पुण्यकृत एवं मुखं पापिन एव दुःखमित्यदृष्टापेक्षा । सर्वमिदमीश्वरेच्छयेतीश्वरापेक्षा । सर्वमेवैतत्स्वभाव इतिचेत् । न । ईग्विधस्य लोकायतपक्षस्य वैदिकमताविशेषात् ॥ २२॥
१ ग. स्तदुप।
For Private And Personal Use Only