SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे विराट् स्वायंभुवं विप्रा असृजन्मनुमास्तिकाः । असृजद्योगिनी नारी शतरूपां तपस्विनीम् ॥ १५॥ सा पुनर्मनुना तेन गृहीताऽतीव शोभना । तस्यां तेन समुत्पन्नः प्रियवृत्तस्तथैव च ॥ १६ ॥ उत्तानपादसंज्ञश्च तथा कन्यादयं पुनः । उत्तानपादजां कन्यां द्विजा दक्षप्रजापतेः ॥ १७॥ आकूतिं दत्तवाशुद्धां मानसस्य प्रजापतेः । आकूयां मानसस्याभूद्यज्ञो विप्राश्च दक्षिणा ॥ १८॥ वैकृतसृष्टेः प्रस्तुतत्वाद्विकाररूपब्रह्माण्डाभिमानिना विराजैव कृतं सर्गमाहविराट् स्वायंभुवमिति । विराइब्रह्मा सोऽपि स्वशरीरं स्त्रीपुंसात्मकं कृत्वा तद्भागावेव मनुशतरूपे कृतवानित्यर्थः । तदुक्तं भागवते 'कस्य रूपमभूद्वेधा यत्कायमभिचक्षते । ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ यस्तु तत्र पुमान्सोऽभून्मनुः स्वायंभुवः स्वराट् । स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ॥ इति । कस्य विराड्ब्रह्मण इत्यर्थः । श्रुतिरप्याह-'स द्वितीयमैच्छत्स हैतावानाम यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममेवाऽऽत्मानंऽद्वेधा पातयत्ततः पतिश्च पत्नी चाभवताम्' इति प्रक्रम्य 'तां समभवत्ततो मनुष्या अजायन्त' इत्यादि । स्वयंभुवो विराजोऽपत्यं स्वायंभुवो मनुः । तेनैव ह्युक्तम् 'तपस्तत्त्वाऽसजा तु स स्वयं पुरुषो विराट् ।। तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः' ॥ इति । __ वृत्तं व्रतं प्रियवृत्तः प्रियव्रतः । उत्तानपादजामिति । उत्तानपादानुजां जातां प्रसूति कन्यां दक्षप्रजापतये । मानसस्येति । रुचिप्रजापतये । यदाहान्यत्र 'ददौ प्रसूति दक्षाय आकूति रुचये पुरा । प्रजापतिःस जग्राह तयोर्यज्ञः सदक्षिणः' इति ॥१५॥१६॥१७॥१०॥ यज्ञस्य जज्ञिरे पुत्रा मुनयो द्वादशास्तिकाः । दक्षाजाताश्चतस्रश्च तथा पुज्यश्च विंशतिः ॥ १९ ॥ १ ग. ङ, जो प्रा For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy