SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। स पुनर्भगवान्ब्रह्मा माययैव स्वकं पुनः । विधा कृत्वा मुनिश्रेष्ठा अर्धन पुरुषोऽभवत् ॥ ११॥ द्विधा कृत्वेति । यदाह मनु: 'द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजममृजत्पभुः ॥ इति । इयत्पर्यन्तं प्राकृतसर्गविशेषः । अव्यक्तमहदहकारतन्मात्राणि बष्टौ प्रकृतय इत्युच्यन्त इत्यारभ्य वैकृतसर्गविशेषः । विकारषोडशकान्तरवर्तिपञ्चीकृतभूतकार्यों हि ब्रह्माण्डः ॥ ११ ॥ अर्धेन नारी तस्यां तु विराजमसृजत्पुनः॥ पुनश्च भगवानस्यां स्वराडाख्यं तथैव च ॥ १२॥ सम्राडात्माभिधं विप्रा अमृजल्लोकनायकः । ते पुनस्तेन विप्रेन्द्रा ब्रह्माण्डेनाऽऽवृतात्रयः ॥ १३ ॥ विराममिति । समष्टिरूपस्थूलभूतपञ्चमयब्रह्माण्डाभिमानिनम् । स्वराडाख्यमिति ब्रह्माण्डान्तरवर्तिसमष्टिलिङशरीराभिमानिनम् । संम्राडात्मेति तदुभयकारणाव्याकृताभिमानिनम् । तेन स्रष्ट्रा हिरण्यगर्भन ब्रह्माण्डेनाऽऽवृता इत्युकपकारेण || १२ ॥ १३ ॥ प्राधान्यन विराडात्मा ब्रह्माण्डमभिमन्यते । स्वराट् स्वरूपमुभयं सम्राडियब्रवीच्छ्रतिः ॥ १४ ॥ उक्तमेव प्रकारमाह-प्राधान्येनेति । स्वरूपमिति | स्वरूपं समष्टिलिङस्वरूपं समष्टिलिङ्गशरीरं तद्ध्यासंसारमनुवृत्तेः स्वरूपमित्युच्यते । यदाह व्यासः । तदापीतेः संसारव्यपदेशादिति । आपीतिरप्पयो मायायास्तत्पर्यन्तमापीतेरिति । अब्रवीच्छ्रतिरिति । तैत्तिरीयकोपनिषदि आपो वा इदं सर्वम् ' इति प्रक्रम्य ' सम्राडापो विराडापः स्वराडापः' इति त्रितयात्मकत्वेनाप स्तुति कुर्वाणा श्रुतिरुक्तसम्राडादित्रितयं व्यवहृतवतीत्यर्थः । अन्य. त्राप्यते बहुषु प्रदेशेषु श्रुत्या व्यवहियन्ते उपरवाभिमन्त्रणे 'विराडसि सपनहा सम्राडसि भातृव्यहा स्वराडयभिमातिहेति । तथा 'विराइज्योतिरधारयत्सम्राज्योतिरधारयत्स्वराड्ज्योतिरधारयत्' इति ॥ १४ ॥ १ ख. वपुः । २ क. ख. शे। ३ ङ. 'जत्प्रभुः । ४ ङ. ते यथो । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy