________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे चयावेवोदाहरन्ति । अमुनवाभिप्रायेण यज्ञवैभवखण्ड उपरिभागे पञ्चमाध्याये
___'अन्नेनाऽऽप्यायिते मुक्तेनाधीतं तस्य भासते' । इत्याप्यायन एवान्नस्यासाधारणकारणतां वक्ष्यति । तदुपहितः परमात्मा हिरण्यगर्भ इत्युच्यते । स एव च ब्रह्मविष्णुरुद्राख्यमूर्तित्रयमध्ये ब्रह्मेत्युच्यते ॥४॥५॥६॥७॥
तथैव ब्रह्मविच्छेष्ठाः संयुताः कृतिशक्तयः ।
समष्टिभूतः प्राणानां भवेत्प्राणः शिवाज्ञया ॥८॥ तथा सूक्ष्मभूतपञ्चके यत्क्रियाशक्तिपञ्चकं तन्मिलितं तत्समष्टिभूतं प्राणापानादिपञ्चवृत्तिकं पाणं जनयति । आपोमयः प्राण इत्यप्पन्नमयवत्माचुर्याभिषायमुपचयाभिप्रायं वा ॥ ८॥
तत्रस्थो भगवान्विष्णुः सूत्रात्मेति प्रकीर्तितः। उभयत्र स्थितः साक्षात्रिमूर्तीनां महेश्वरः ॥९॥ अन्तर्यामीति वेदेषु गीयते वेदवित्तमाः।
हिरण्यगर्भरूपं यः प्राप्तः श्रुतिषु निश्चितः ॥ १०॥ तदुपहितः परमात्मा सूत्रात्मेत्युच्यते । स एव च ब्रह्मादिमर्तित्रयमध्ये विष्णुरिति । उभयत्रेति । क्रियाज्ञानपविभागमन्तरेण भूतशक्तिपञ्चकोत्पन्ने परिहृतमन:पाणविभाग एकस्मिन्नुपाधौ स एव परमात्माऽन्तर्यामीति । स च ब्रह्मादिमू. तित्रयमध्ये महेश्वर इत्युच्यते । अविभक्तज्ञानक्रियाशक्तित्वाविशेषात्कारणोपाधिक ईश्वरोऽप्यन्तर्यामीति कथ्यते । 'एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्' इति हि श्रूयते । वेदेषु गीयत इति । बृहदारण्यके पञ्चमाध्याय उद्दालकयाज्ञवल्क्यसंवादे सप्तमब्राह्मणे प्रष्टारमुद्दालकं प्रति याज्ञवल्क्येनोक्तम् । ' यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्य मृतः' इत्यादिभिर्बहुभिः पर्यायैरन्तर्यामी निरूपितः । तथा वायुर्वै गौतम तत्सूत्रमित्यादिना पाणः सूत्रात्मा निरूपितः । तथा 'हिरण्यगर्भः समवर्तताने' इति हिरण्यगर्भोऽपि श्रुतिषु गीयते। हिरण्यगर्भरूपमिति । ब्रह्मा हि त्रिमूर्तिमध्यवर्तिना ब्रह्माण्डाभिमानिविराडात्मना च व्यपदिश्यते । तदुभयमव्यवच्छेदेन समष्टिसूक्ष्मोपाधिकविवक्षया यः प्राग्घिरण्यगर्भरूपं प्राप्त इत्युदित इत्युक्तम् ॥ ९ ॥ १०॥
For Private And Personal Use Only