SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। पञ्चभूतेषु जातेषु शब्दस्पर्शादिषु द्विजाः। विजातास्तेषु सत्त्वेन गुणेन ज्ञानशक्तयः ॥४॥ तथा समष्टिभूतानां द्विजाः खानां रजोगुणात् । शब्दस्पर्शादिभूतेषु विजाताः कृतिशक्तयः ॥५॥ भूतेषु संस्थिता ज्ञानशक्तयः पञ्च संयुताः। समष्टिभूतं सर्वेषां मानसं करणं भवेत् ॥६॥ तद्रतो भगवान्ब्रह्मा त्रिमूर्तीनां द्विजर्षभाः। हिरण्यगर्भ इत्युक्तो मुनिभिः सूक्ष्मदर्शिभिः ॥ ७॥ पञ्चभूतेष्विति । अयमर्थः । अबुद्धिपूर्वकं तमोरूपमव्यक्तमुत्पन्नमिति यदवादिष्म तदधिष्ठितनिष्कलः परशिव ईश्वरः सगुणं ब्रह्मेति चोच्यते । तत उत्पन्नं यन्महत्तत्त्वं प्राकृतसर्गमध्ये प्रथमम् ‘सर्गस्तु प्रथमो ज्ञेयः' इति प्रागुतं तस्य गुणत्रयात्मकत्वात्तत उत्पन्नानि शब्दस्पर्शरूपरसगन्धतन्मात्रापरपर्यापाणि सूक्ष्मभूतान्यपि गुणत्रयात्मकान्येव । अतस्तेषु सत्त्वगुणनिबन्धना याः पञ्चज्ञानशक्तपस्ताः प्रत्येकं श्रोत्रत्वकार्जिह्वाधाणलक्षणानि ज्ञानेन्द्रियाणि पञ्च जनन्ति । तेष्वेव पञ्चमु सूक्ष्मभूतेषु रजोगुणात्समष्टिभूतानां खानां वापाणिपादपायूपस्थलक्षणानां कर्मेन्द्रियाणां कारणभूताः पञ्च क्रियाशक्तयो जायन्ते । तथेति कथनात्समष्टिभूतानां खानामित्येतत्पूर्वत्रापि योजनीयम् । तत्र तु श्रोत्रादीनां ज्ञानेन्द्रियाणां कारणभूता ज्ञानशक्तय इत्यर्थः । समष्टिभूतानामिति व्यष्टिव्यवच्छेदार्थम् । तथाहि । व्यष्टिभूतस्थूलभूतसूक्ष्मकारणोपाधिभिरुपहितं तत्त्वं विश्वतैजसपाज्ञशब्दैरभिधीयते । समष्टिभूतैस्तै रुपहितं तत्त्वं वैश्वानरहिरण्यगर्भेश्वरपदैरभिधीयते । तथा झुत्तरतापनीयोपनिषदि श्रूयते 'विश्वो वैश्वानरः प्रथमः पादस्तैजसो हिरण्यगर्भो द्वितीयः पादःप्राज्ञ ईश्वरस्तृतीयः पादः' इति । तदिह हिरण्यगर्भस्य विवक्षितत्वात्समष्टिभूतानामित्युक्तम् । तत्र समष्टिसूक्ष्मभूतेषु पञ्चसु स्थिता ज्ञानशक्तयो मिलित्वा मनोबुध्यपरपर्यायं समष्टिभूतमन्तःकरणं जनयन्ति । पञ्चभूतगतज्ञानशक्त्यात्मकस्यापि मनसश्छन्दोगोपनिषदि यदन्नमयत्वाभिधानम् 'अन्नमयं हि सौम्य मनः' इति तदन्नप्राचुर्याभिप्रायम् । अन्ननिबन्धनोपचयाभिप्रायं वा । तथाच तत्रैव पञ्चदशाहानि माऽशीरित्यादिनाऽन्नहानोपादानाभ्यां चित्तस्यापचंयोप १ ग. इ. 'लितत्वान्मनो'। २ ड. 'चयो चोदा। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy