SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यस्खण्डे एकादशोऽध्यायः -amनैमिषीया ऊचुःएवं सृष्ट्वा पुनर्ब्रह्मा स्थावराणि चराणि च । भगवन्भगवानीशः किं चकाराऽऽशु तद्वद ॥१॥ प्रजापतेः स्वप्रतिष्ठत्वेऽव शिष्टसृष्टिः सृष्टपरिपालनं सांप्रतिकसंसारोपलम्भश्व कथं स्यादिति जिज्ञासमाना मुनयः पृच्छन्ति । एवं सृष्टुति ॥ १॥ सूत उवाचसंहारहेतुभूतेन तमसा परिवेष्टितः । विहाय तत्तमोरूपं सृष्टानामभिवृद्धये ॥२॥ हिरण्यगर्भसंज्ञस्य ब्रह्मणो रूपमाप सः। हिरण्यगर्भ वक्ष्यामि तथाऽन्यदपि सुव्रताः ॥३॥ संहारहेतुभूतेनेति । जगत्कर्तरि प्रजापतौ स्वरूपप्रतिष्ठे हि 'जगत्प्रतिष्ठा देवर्षे' इत्युक्तरीत्या सकलं जगदव्यक्ते लीयते । अत उक्तं संहारहेतुभूतं तमः। तेन परिवेष्टितस्तदुपाधिकः स सृष्टानामभिवृद्धये तत्तमोरूपं विजहौ । अयमाशयः । अविद्यास्मितारागद्वेषाभिनिवेशलक्षणक्लेशपञ्चकमूलो हि कर्माशयः पाणिभिरिहामुत्र च लोके भोक्तव्यः । यदुक्तं पतञ्जलिना । क्लेशमूलं कर्माशयो दृष्टादृष्टजन्मवेदनीय इति । यावच्च कर्मणां मूलभूतं क्लेशपञ्चकमनुवर्तते तावत्तस्य कमाशयस्य त्रिविधः परिपाको भवति नानाविधयोनिषु जन्ममाप्तिश्चाऽऽयुश्च सुखदुःखलक्षणफलोपभोगश्चेति । तदप्युक्तं तेनैव 'सति मूले तद्विपाको जात्यायुर्भोगाः' इति । तत्र पूर्वोदीरितसृष्टयां केषांचिज्जन्महेतुकर्मणां चरितार्थत्वेऽप्यवशिष्टानां चाऽऽयुर्हेतूनां च कर्मणां फलमदानानुरूपसर्गपर्यन्तानां प्रभोराज्ञामनुसंदधानस्तदर्थं हिरण्यगर्भापरपर्यायस्य ब्रह्मणो रूपं प्रापदिति । यद्यऽपि ब्रह्मा हिरण्यगर्भरूप एव तथाऽपि सूतः प्रा. कृतसर्गशेषं विवक्षुरजिज्ञासिताभिधानेऽनवधेयवचनतापातात्तद्विषयां जिज्ञासां मुनीनामुत्पादयितुं हिरण्यगर्भसंज्ञस्येति विशिनष्टि । अमुनैव विशेषणेन मुनी ज्ञात जिज्ञासानाकलय्यापृष्टोऽपि सूतः स्वयमेव वक्तुं प्रतिजानीते । हिरण्यगर्भमिति । तथाऽन्यदिति । सूत्रात्मानमन्तर्यामिणं त्रयाणामपेक्षितमुपाधित्रयं तदुत्पत्तिप्रकारं चेत्यर्थः ॥ २॥ ३ ॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy