________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः १०]
सूतसंहिता ।
पञ्चीकृतानि भूतानि ब्रह्मणा मुनयः पुरा । सर्वेषा कारणत्वेन प्रोक्तानि ब्रह्मवादिभिः ॥ ५७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०३
यानि पुरा ब्रह्मणा पञ्चीकृतानि भूतानि तान्येवोक्तस्य शब्दार्थप्रपञ्चजातस्य कारणमित्यर्थः ॥ ५७ ॥
एवं विचित्रं जगदन्तरात्मा प्रजापतिः स्वप्रसमं स सृष्ट्वा । प्रसादतस्तस्य महेश्वरस्य पुनस्तमोरूपमवाप सद्यः ॥ ५८ ॥
इति श्रीस्कन्दपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे ब्रह्मसृष्टिकथनं नाम दशमोऽध्यायः ॥ १० ॥
एवं विचित्रमिति । निरतिशयज्ञानवैराग्यसंपन्नो हि प्रजापतिः । यत्रेदमुच्यते'ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पत्तेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' इति ।
सह स्वभावत एव । एवंभूतोऽपि सृज्यप्राणिकर्मभिः प्रवर्तितस्य परमेश्वरस्याssज्ञया मायामयं जगन्निर्माय प्रभोराज्ञां निष्पन्नां मन्यमानः स्वाभाविक स्वरूपप्रतिष्ठां प्रापत् | तत्त्वनिष्ठेव चेयं लौकिकदृष्टीनामविषयत्वात्तमोरूपणा तिरुच्यते । उक्तं गीतामु
'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' इति ॥ ५८
For Private And Personal Use Only
इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीम त्र्यम्बकपादाब्जसेवापरायनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे ब्रह्मसृष्टिकथनं नाम दशमोऽध्यायः ॥ १० ॥