________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड पात्रे घृतमदुहत् । याऽस्य सा तनूरासीत्तामपाहत सोऽहोरात्रयोः संधिरभवदिति ॥ ४९ ॥ ५० ॥
ब्रह्मणो विग्रहादेव रजसा परिवेष्टितात् । जज्ञिरे मनुजाः सर्वे त्यक्तं तद्विग्रहं पुनः॥५१॥ ज्योत्स्नारूपेण निष्पनं पुनर्देहान्तरं गतः । ब्रह्मा तस्य शरीरात्तु रजसा सहिताद्विजाः ॥५२॥ क्षुत्पिपासाभिभूताश्च राक्षसाः पन्नगास्तथा ।
भूतगन्धर्वरूपाश्च समुत्पन्ना बलान्विताः ॥ ५३॥ रजसा परिवेष्टितादिति । अक्स्रिोतसो हि राजसा इत्युक्तम् । श्रूयते हि ‘स प्रजननादेव प्रजा असृजत' इत्यारभ्य 'ताभ्यो दारुमये पात्रे पयोऽदुहद्याऽस्य सा तनूरासीत्तामपाहत सा ज्योत्स्नाऽभवत्' इति ।
रजसा सहितादिति । रजसो रागात्मकत्वाचतो जाता राक्षसादयः क्षुत्पिपासादिपरीता जाताः ॥ ५१ ॥ ५२ ॥ ५३ ॥
पुनर्देहान्तरं गत्वा ततो विश्वजगत्पतिः।
वयांसि गर्दभानश्वान्मातङ्गानासभान्मृगान् ॥ ५४॥ तत्तत्वष्टव्यानुरूपं तं तं देहं स्वीकृत्य शेषं सर्व सृष्टवानित्याह-पुनर्देहान्तरं गत्वेति ॥ ५४॥
ससर्जान्यांश्च विश्वात्मा तथैवौगात्रमेव च ।
ऋचं चैव त्रिवत्सोमं तथा चैव रथंतरम् ॥ ५५॥ औद्गात्रमुद्रातृकर्म । ऋवं यज्ञम् । त्रिवृदादीनि यज्ञाङ्गानि । श्रूयते हि 'इदं सर्वमसृजत यदिदं किंच ऋचो यजूंषि सामानि च्छदांसि यज्ञान्मजां पशन्' इति ॥ ५५ ॥
अग्निष्टोमादिकं सर्व सहाङ्गेन प्रजापतिः ।
तथैव सर्वनामानि निर्ममे वेदशब्दतः ॥ ५६ ॥ वेदशब्दत इति । तथा चोक्तं पुराणे
'ऋषीणां नामधेयानि कर्माणि विविधानि च । वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः' इति ॥ ५६ ॥
For Private And Personal Use Only