SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२ सूतसंहिता। देवदेवो महादेवः सर्वज्ञः करुणानिधिः।। कपर्दी नीलकण्ठश्च कालकालो महेश्वरः॥ ३२॥ उक्तेऽर्थे मुनीनां संशयापनयनाय परमेश्वरवाक्यमुदाहतुं संशयानान्मुनीननुक्रामति । पुरा हिमवत इत्यादिना ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ सोमाधुशेखरः सोमः सोमसूर्याग्निलोचनः । उवाच मधुरं वाक्यं मुनीनां संशयापहम् ॥ ३३॥ ईश्वर उवाच न स्वभावाजगजन्मस्थितिध्वंसा मुनीश्वराः। न मया केवलेनापि नच केवलकर्मणा ॥ ३४॥ प्राणिनां कर्मपाकेन मया च मुनिसत्तमाः। जगतः संभवो नाशः स्थितिश्च भवति द्विजाः ॥३५॥ एवं कर्मानुरूपेण जगजन्मादि यन्मया। एष स्वभावो विप्रेन्द्रा इति वेदार्थनिर्णयः ॥ ३६ ॥ मूत उवाचएवमुक्त्वा महादेवः सर्वज्ञः करुणानिधिः । अनुगृह्य मुनिश्रेष्ठांस्तत्रैवान्तर्हितोऽभवत् ॥ ३७॥ मुनयश्च पुनर्विप्राः समाभाष्य परस्परम् । अतीव प्रीतिमापना अगमन्वेदवित्तमाः ॥ ३८॥ भवन्तोऽपि मुनिश्रेष्ठाः प्राणिकर्मानुरूपतः। सृष्ट्वा संहरतीशान इति वित्त जगत्सदा ॥ ३९ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयास्तपोधनाः। प्रसन्नहृदयाः शर्व पूजयामासुरादरात् ॥ ४०॥ इति श्रीस्कदपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे हिर ण्यगर्भादिविशेषसृष्टिर्नामैकादशोऽध्यायः ॥ ११॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy