________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
चंपयपाडलमंदारपमुहतरुकलियं । सबनुगमुजाणं दिण्णं तीए जिणाययणे ॥६७॥ इय एवमाइ सबं पडिपुण्णं कारवेवि जिणभवणं । विउसवरेहि लिहावइ तत्थ इमं सासणं विउलं ॥६८॥
तद्यथा-भक्तिभरनघसुरपति-किरीटमाणिक्यकोटिघृष्टपदः । सुरपतिवचोभिर्विनुतः, स पातु वः सुव्रतजिनेन्द्रः॥६९।। श्रीशकुनिकाविहारो, विख्यातस्त्रिभुवनेष्ययं वन्द्यः । निर्वाणनगरगोपुर-कपाटपाटनपटिष्ठः ॥७॥ यस्या विबुधबुधैरप्यनेकधा पादपङ्कजं विनुतम् । श्रीमजिनेन्द्रगदिता वाणी सा नः श्रुतं दिशतु ॥७१।। एकद्वित्रिचतुःपञ्च-पट्खण्डवसुधाधिपाः । एकग्रामाधिपाद्याश्च, ते शृण्वन्तु वचो मम ॥७२॥ [अनुष्टुभवृत्तम् ] भो! भो! कृतपुण्या ये, परोपकारोद्यताः कुलीनाश्च । भवभयभीतास्तेषां, करोमि विज्ञप्तिकामेताम् ॥७३॥ यस्मान्नलिनीदलगत-जललवसदृशं हि जीवितं वीक्ष्य । शरदभ्रसममालोक्य सम्पदं कुरुत जिनधर्मम् ॥७४॥ श्रीसिंघलद्वीपसुखप्रदस्य, श्रीमच्छिलामेघनराधिपस्य । तस्याऽङ्गजा नामसुदर्शनाऽहं, प्राग्जन्मविज्ञातविचित्रदुःखा ॥७५॥ [इन्द्रवत्रावृत्तम् ]
ततश्च–संसारभ्रमिभीत्या, जातिस्मृत्या पितुः समादिष्टा । भृगुकच्छपुरे चैत्याs-कारि मयतन्जिनायतनम् ॥७॥ श्रीलाटदेशराजा, जलधितटे नर्मदानदीतीरे । कल्याणराज्यविजयी, श्रीमज्जितशत्रुनामाऽसौ ॥७७॥ यानि ददर्श दिनान्तर्गजतुरगाऽऽक्रान्तनगरगोष्ठानि । ग्रामाणि चैष राजा, तेषामुपयोगमाख्यामि ॥७८॥ श्रीशकुनिकाविहारे श्रीमन्मुनिसुव्रताय तीर्थकृते । अष्टौ ग्रामशतानि, प्रहृष्टजनवसतिरम्याणि ॥७२॥ वेलाकुलानि चाऽष्टौ सप्राकाराणि चाऽष्टनग
१ आज्ञां।
सुदंस०२०
For Private and Personal Use Only