________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९१) मुनिवनतरुच्छायां देव्या तया सह शिश्रिये,
गलितवयसामित्वाकूणामिदं हि कुलवतम् ॥ ५५६ ।। कवि-प्रशंसा।
ते केचिदस्खलितबन्धनवप्रबन्धसन्धानबन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति,
कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५५७ ॥ एकः श्लोकवरो रसौषमधुरो हृयो वरं सत्कवेनैवेष्टः कुकवेः प्रलापबहुला कृत्स्नः प्रबन्धोऽपि वा । वक्रोक्त्या वलितः सहासरमसः पौराङ्गनाविभ्रमो, हर्षोत्कर्षकरो यथा नहि तथा ग्रामीणवध्वारतम् ॥५५८।। किं कवेस्तस्य काव्येन, किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं, न घूर्णयति यच्छिरः ॥ ५५९ ।। वचन कैसा बोलना चाहिये ।।
पिपासुता शान्तिमुपति वारिजा, न जातु दुग्धान्मधुनोऽधिकादपि । गुरोगिरः पल्लवनाऽर्थलाघवे,
मितं च सारं च वचो हि वाग्मिता ॥ ५६० ॥ यदि स्वभावान्मनोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः। अथाऽवदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः ।। महाजनाचारपरम्परेशी स्वनाम नामाददते न साधवः। अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ।
For Private And Personal Use Only