________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सब धर्मवालोंको क्या प्रिय है ? । पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ ५२२ ।। भूषण सच्चा क्या है ? । तृतीयं लोचनं ज्ञानं, द्वितीयो हि दिवाकरः । अचौर्यहरणं वित्तं, विना स्वर्ण हि भूषणम् ।। ५२३ ॥ चतुरता कीससे आती है ? देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः । अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पञ्च ५२४॥ स्वभाव का औषध नहीं होता है। काकः पद्मवने रतिं न कुरुते, हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते, दासो न सिंहासने । कुस्त्री सञ्जनसङ्गमे न रमते, नीचं जन सेवते, या यस्य प्रकृतिः स्वभावजनिता, केनापि न त्यज्यते ॥५२॥ बुद्धि भाग्याधीन है। ननिर्मितं न (नापि) च केन दृष्टं, न श्रूयते हेममयः कुरङ्गः। तथापि तृष्णा रघुनन्दनस्य, विनाशकाले विपरीतबुद्धिः कलसे कार्य होता है बलसे नहीं । यस्य बुद्धिर्बलं तस्य, निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ ५२८ ॥
For Private And Personal Use Only