________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६८) दरिद्रको मान नहीं मीलता ।
आदरं लभते लोके, न कापि धनवर्जितः ।
कान्तिहीनो यथा चन्द्रो, वासरे न लभते प्रथाम् ॥४१४॥ दुर्जनका संग नहीं करना ।
दुर्जनः परिहर्तव्यो, विद्यया भूषितोऽपि सन् ।
मणिना भूषितः सर्पः, किमसौ न भयङ्करः ।। ४१५ ॥ प्राण और धनको कोण हरण करता है ?
वैद्यराज ! नमस्तुभ्यं, यमराजसहोदर । यमस्तु हरते प्राणान् , त्वं च (वैद्य:) प्राणान्
धनानि च ।। ४१६॥ मांसाहारी क्रूर होता है।
कामलुब्धे कुतो लज्जा, धर्महीने कुतः क्रिया ।
मद्यपाने कुतः शौचं, मांसाहारे कुतो दया ॥ ४१७ ॥ कामावस्था । मुण्डं शिरो वदनमेतदनिष्टगन्धं,
भिक्षाशनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभ,
चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ।। ४१८ ।। वचन से बदलना न चाईए।
राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः । या मया स्वयमेवोक्ता, वाचा मा यातु शाश्वती ॥४१९॥
For Private And Personal Use Only