________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६६ ) तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥४० ॥ केवलं गहरीभृते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥४०॥ तत्र तस्य शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥४०२॥ तस्मिन् पझे भगवान् , दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥४०३ ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ४०४ ।। कद्रूः सरीसृपाणां सुलसा माता च नागजातीनाम् ।
सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ४०५ ॥ ईश्वर सर्वव्याप्त है।
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ॥४०६॥ ईश्वर सर्वत्र है।
अहं च पृथिवी पार्थ ! वास्वग्निजलमप्यहम् ।
वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥४०७ ।। कामदेव कैसा नीच है। कृशः काणः खञ्जः श्रवणरहितः पुच्छविकला,
क्षुधाचामो जीर्णः पिठरककपालार्पितगलः।
For Private And Personal Use Only