________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६५) वृद्धत्व प्रशंसा।
वयोवृद्धास्तपो वृद्धा, राजवृद्धा बहुश्रुताः
सर्वेऽपि धनवृद्धस्य, द्वारे तिष्ठन्ति किङ्कराः ॥ ३९४ ॥ ज्यादा भोजन और बोलना मरण के लीये है ।
अतिभुक्तमतीवोक्तं, प्राणिनां मरणप्रदम् ।
न कार्योऽत्र स्मयो येन, बहुरत्ना वसुंधरा ॥३९५ ॥ युक्ति प्रशंसा।
उपायेन प्रकर्तव्यं, न शक्यं यत्पराक्रमैः ।
अभीप्सितानि सिध्यन्ति, जने हास्यं न जायते ॥३९६॥ दश अवतार ।
मत्स्यः कूर्मों वराहश्च, नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च, बुद्धः कल्की च ते दश ॥३९७।। सज्जनो के लक्षण । तृष्णां छिन्धि भज क्षमा जहि मदं पापे रति मा कृथाः,
सत्यं ब्रह्मनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान्गुणान् , कीर्ति पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् ॥३९८॥
आसीदिदं तमोभृत-मप्रज्ञातमलक्षणम् । अप्रतळमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥३९९ ।।
For Private And Personal Use Only