________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५८) अर्थ धर्म च मोक्षं च वेश्मेव गृहमेधिनः ।
प्रासादितप्रवेशोऽयं खनत्याखुरिव स्मरः ॥ ३४८ ।। कुसंसर्ग निन्दा।
कुसंसर्गात्कुलीनानां भवेदभ्युदयः कुतः।
कदली नंदति कियद्बदरीतरुसंनिधौ ॥ ३४९ ॥ अधर्म निन्दा ।
चक्रव_प्यधर्मः सन् जन्म तल्लभते पुनः। कदन्नमपि संप्राप्तं यत्र राज्याय मन्यते ॥ ३५० ॥ महाकुलप्रसूतोऽपि धर्मोपार्जनवर्जितः । भवेद्भवान्तरे श्वेव परोच्छिष्टान्न भोजनः ॥ ३५१ ।। धर्महीनो द्विजन्मापि नित्यं पापानुबन्धका । बिडाल इव दुर्वृत्तो म्लेच्छयोनिषु जायते ।। ३५२ ॥ बिडालव्यालशार्दूलश्येनगृध्रादियोनिषु । भवन्ति भूयिष्ठभवा भविनो धर्मवर्जिताः ॥ ३५३ ॥ धर्महीनाः कुमयः स्युरसकृच्छकृदादिषु ।
कुकुटादेलेभन्ते च चञ्चुचरणताडनम् ॥ ३५४ ।। कर्मका फल ।
किं च प्रत्यक्षमीक्ष्यन्ते जलस्थलखचारिणः । प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् ।। ३५५॥ तत्र वारिचराः स्वैरं खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५६ ॥
For Private And Personal Use Only