________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५९) विश्वासघात ।
विश्वासप्रतिपन्नानी, वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तानां, हन्तुः किं नाम पौरुषम् ।।३५७॥ मित्रद्रोही निन्दा।
सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे ।।
ब्रह्महा मुच्यते पापैः, मित्रद्रोही न मुच्यते ।। ३५८ ।। नरक कोण जाता है ।
मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः ।
चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ ।। ३५९ ।। दान महिमा ।
राजंस्त्वं राजपुत्रस्य, यदि कल्याणमिच्छसि ।
देहि दानं सुपात्रेषु, गृही दानेन शुध्यति ॥ ३६० ॥ कौनसे शकुन फलदायी है ?।।
बुद्धिपूर्वकं शकुनं तथा न फलदं यथाकस्मिकम् । गुरुप्रशंसा ।
देवगुरूप्रसादेन, जिह्वाग्रे में सरस्वती।
तेनाहं नृप जानामि, भानुमत्यास्तिलकं यथा ।। ३६२।। विपत्तिका मूल क्या है ?।
कूलच्छाया दुर्जनाश्च, विषं च विषयास्तथा । दंदशूकाश्च जायन्ते, सेव्यमाना विपत्तये ।। ३६३ ॥
For Private And Personal Use Only